Monday 12 July 2010

योगक्षेमं वहाम्यहम्

पुरा कोऽपि संस्कृतपण्डित: कस्यचिद्राज्ञ: सभां गत:। राज्ञ: पुरत: स्वपाण्डित्यप्रदर्शनेन विपुलं धनं कीर्ति: च सम्पादयिष्यते तेन इति तेन चिन्तितम्। राज्ञा पण्डितवर: प्रणत: पृष्ट: च, "पण्डितवर, कस्मिन् विषये तत्रभवत: पाण्डित्यम्?" इति। पण्डतेनोक्तम् , " अहं तु सर्वशास्त्रविशारद: परन्तु श्रीमद्भगवद्गीतासु मम विशेषानुराग:" इति। राज्ञोक्तं - " तथा चेत् गीतास्थ: श्लोकोऽयं व्याख्यायताम् - अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥" इति। श्लोकोऽयम् अतीव प्रसिद्ध: विद्यते। भगवता श्रीकृष्णेन अत्र उक्तम् यत् - ये केचन जना: अनन्यशरणा: सन्त: माम् उपासते, मम आराधनं कुर्वन्ति, नित्यम् अभियुक्तानां तेषां योगक्षेमं, तन्नाम सर्वासाम् आवश्यक्तानां पूर्तिं जीवननिर्वहणं च अहं वहामि’ इति। स विद्वान् अनुक्षणं तं श्लोकम् अधिकृत्य होरां यावत् भाषणम् अकरोत्। बहुभि: उदाहरणै: श्रुतिस्मृतिवचनै: च श्लोकस्य अस्य अर्थं सुष्ठु विवृतवान् स:। परन्तु भाषणान्ते राज्ञो मुखे तथा सन्तोष: न दृष्ट: तेन। राज्ञोक्तं, "विद्वद्वर तत्रभवतो भाषणम् अतीव विद्वत्तापूर्णम् इत्यत्र नास्ति शङ्कालेश:, परन्तु इतोऽपि किञ्चित् अस्पष्टता अस्ति तत्र इति मम हृदयं वदति" इति। पण्डितवर: न मनागपि खिन्न:। तेनोक्तम्, "भवतु राजन्, अहं पुनरपि गभीरतरम् अध्ययनं कृत्वा इमम् एव श्लोकम् अधिकृत्य श्व: पुनरपि व्याख्यास्यामि" इति। द्वितीयेऽहनि पुनरपि होरां यावत् विनूतनानि उदाहरणानि प्रस्तूय तेन अयमेव श्लोक: विवृत:। तथापि राज्ञो मुखे सन्तोष: नासीत्। "इतोऽपि तत्रभवत: भाषणे काचित् न्यूनता प्रतिभाति मे इति" राज्ञा उक्तम्। न पण्डितेन अपि धैर्यं त्यक्तम्। तृतीयेऽहनि पुनरपि तमेव श्लोकम् अधिकृत्य स व्याख्यातवान्। परन्तु इतोऽपि राज्ञ: सन्तोष: नासीत्। एवम् एव दशदिनानि यावत् सततं प्रतिदिनं होरां यावत् नवनवै: उदाहरणै: श्रुतिस्मृतिवाक्यै: च स विद्वान् प्रत्यपासयत् परन्तु राज्ञ: इतोऽपि सन्तोष: नास्ति। अधुना पण्डित: किञ्चिदिव हताशताम् अन्वभवत्। स मनसि अकरोत्, "श्लोकस्यास्य विषये उपलब्धा: सर्वा: टीका: मया अधीता:, तत्सम्बद्धं सर्वं साहित्यं चावलोकितम्। सर्वमपि तत्र प्रास्तवम्। इत: परं किं मया राज्ञ: सन्तोषार्थं कर्तव्यम्?" इति। द्वितीयदिने प्रात: पुनरपि राज्ञ: सभा गन्तव्या आसीत्। पुनरपि किमपि विनूतनं तस्यैव श्लोकस्य विषये वक्तव्यम् आसीत्। किं वा वदानि अद्य? इति सम्भ्रान्त: स: सहसा सर्वा: टीका: अत्यजत्। श्रीकृष्णस्य प्रतिमामवलोकयन् मूलम् एव श्लोकं भूय: भूय: पठन्नासीत् स:। "अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥" इति। सहसैव तस्य मनसि प्रकाश: जात:। स मनसि अकरोत् " अये! अत्र तु भगवता उक्तं यत् योगक्षेमम् अहं वहामि इति, तत् कस्मात् अहं मम योगक्षेमस्य चिन्तां कुर्वन् तस्य राजस्य सन्तोषार्थं प्रयतमान: अस्मि?" इति। तेनेदम् अवगतं यत्, अनन्य: सन् श्रीकृष्णस्य शरणं गतस्य तस्य कृते राज्ञ: अनुग्रहस्य कापि आवश्यकता एव न विद्यते। तस्मिन् दिने स राजसभामेव न गत:। सभायां तं प्रतीक्षमाण: राजा एव स्वयं तस्य आगमनस्य वेलाया: अतिक्रमणाद् अनन्तरं तेन मेलनार्थं तस्य गृहमायात:। तेनोक्तं, "भो: पण्डितवर, कस्मादद्य तत्रभवान् सभामेव नागत:?" इति। पण्डितेन उक्तं, "भगवता श्रीकृष्णेन एव मम योगक्षेमस्य निर्वहणस्य दायित्वं स्वीकृतम् अस्ति इति वस्तुत: अहम् अद्य अवगतवान्। अधुना मम भवत: कापि अपेक्षा एव नास्ति। तस्मात् अद्य अहं राजसभां नैव आगच्छम् यदि भवान् मत्त: ज्ञानं प्राप्तुम् इच्छति तर्हि सुखम् आगच्छतु मम गृहम्। अतीव प्रेम्ण भवते ज्ञानं प्रदास्यामि" इति। मन्दं हसन् राजा तदा अवदत्,"पण्डितवर, अद्य भवता अस्य श्लोकस्य वास्तविक: अर्थ: विज्ञात:" इति।
चिन्तयतु....