tag:blogger.com,1999:blog-12000739425553600502024-02-20T10:57:15.265-08:00॥अद्यतनचिन्तनम्॥संस्कृतभारत्या: प्रशिक्षणशिबिरेषु प्रतिदिनं प्रात: सर्वेषां चिन्तनाय काचित् लघु-बोध-कथा कश्चन बोधप्रद: प्रसङ्ग: वा उच्यते। तत् चिन्तनं जीवनं परिवर्तयितुं शक्नोति इति मे मति:। अत: तादृशनां चिन्तनानां सङ्ग्रह: अत्र क्रियते।संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.comBlogger16125tag:blogger.com,1999:blog-1200073942555360050.post-36275612899264117262021-08-12T16:32:00.002-07:002021-08-12T16:32:38.940-07:00विभिन्नाः कथाः
तत्र एकः महान् गुरुः। एकः बालः तत्र आगच्छति। सः गुरुकुले प्रवेशम् इच्छति। गुरुः
वदति, “मम प्रश्नस्य उत्तरं ददातु, तदा एव गुरुकुले प्रवेशं ददामि” इति। बालकः
वदति, “अस्तु। पृच्छतु” इति। गुरुः पृच्छति, “देवः कुत्र अस्ति?” इति। बालकः प्रबुद्धः
अस्ति। सः गुरुं वदति, “अहम् एतस्य प्रश्नस्य उत्तरं वदामि, किन्तु ततः पूर्वं
भवान् वदतु ‘देवः कुत्र नास्ति?’ इति”। गुरुः सन्तुष्टः। बालः गुरुकुले प्रवेशं
प्राप्नोति।
तस्य समीपे नैकाः गावः सन्ति। सः प्रतिदिनं प्रातःकाले गोदोहनं करोति। मध्याह्ने
सः दुग्धविक्रयार्थं नगरं गच्छति। सर्वे नागरिकाः दुग्धं स्वीकुर्वन्ति, धनं च
यच्छन्ति। एवं गोपालः सुखेन जीवति। एकदा गोपालस्य मस्तिष्के विचारः आगच्छति, “श्वः
अहं दुग्धे जलं मिश्रयामि, बहुलं धनं च अर्जयामि” इति। द्वितीय-दिने सः दुग्धे जलं
मिश्रयति। तस्य एकं मित्रम् अस्ति - ‘मञ्जुनादः’ इति। मञ्जुनादः वदति, “मित्र!
एतद् उचितं नास्ति” इति। किन्तु गोपालः न शृणोति। सः दुग्धे जलं मिश्रयति। नगरे
विक्रयणं करोति। बहुलं धनम् अर्जयति। अतीव प्रसन्नः भवति। पुनः ग्रामम् आगच्छति।
मार्गे नदी अस्ति। सः चिन्तयति, “अहं प्रथमं स्नानं करोमि, ततः गृहं गच्छामि” इति।
सः धनं तटे स्थापयति, स्नानार्थं च गच्छति। तटे वानराः आगच्छन्ति। सर्वं धनं
विकिरन्ति। किञ्चित् धनं तु नद्याम् अपि पतति। गोपालः बहिः आगच्छति। भूमौ पतितं
धनम् एकत्रीकरोति। अत्यन्तं खिन्नः भवति। गृह-गमन-मार्गे मञ्जुनादः मिलति।
मञ्जुनादः पृच्छति, “मित्र, भवान् किमर्थं खिन्नः?” इति। गोपालः सर्वं वृत्तान्तं
श्रावयति। मञ्जुनादः हसति, वदति च, “भोः मित्र, दुःखितः मा भवतु। जलस्य धनं जलं
मुनिवरः। तस्य आश्रमे नैके शिष्याः पठितवन्तः। कदाचित् अत्यधिका वृष्टिः जाता। सर्वत्र
जलसञ्चयः जातः। धौम्यः तस्य शिष्यम् आरुणिं सूचयति, “भोः आरुणे, कृपया क्षेत्रं
गच्छतु। तत्र जलं न प्रविशेत् तथा करोतु” इति। आरुणिः शीघ्रं क्षेत्रं गतवान्। जलस्य
अवरोधाय मृत्तिकायाः पालिं कृतवान्। किन्तु जलप्रवाहः न अवरुद्धः। सः चिन्तितवान्,
“अस्तु। जलप्रवाहस्य रोधनाय अहं स्वयमेव अत्र शयनं करोमि” इति। सः तथैव कृतवान्। रात्रिः
जाता। आरुणिः आश्रमं न आगतवान्। चिन्तितः धौम्यः ऋषिः एकं शिष्यं पृष्टवान्, “भोः!
आरुणिः कुत्र अस्ति?” इति। शिष्यः उक्तवान्, “अहं न जानामि” इति। धौम्यः स्वयमेव
क्षेत्रं गतवान्। ‘आचार्यस्य आज्ञापालनाय आरुणिः स्व-शरीरेण जलरोधनम् करोति’ इति
गोधूमपिष्टं प्राप्तवान्। सः पिष्ट-पात्रं स्व-गृहे नागदन्ते लम्बितवान्। तस्य अधः
एव शयनं कृतवान्, चिन्तितवान् च, “यदि देशे दुष्कालः भविष्यति तर्हि एतस्य
पिष्टस्य मूल्यं शतं रूप्यकाणि भविष्यति। तदा अहम् एतस्य पिष्टस्य विक्रयणं
करिष्यामि। ततः प्राप्तेन धनेन अहम् कुक्कुट-द्वयं क्रेष्यामि। ततः कालक्रमेण
अनेके कुक्कुटाः भविष्यन्ति। तेषामपि विक्रयणं करिष्यामि। ततः प्राप्तेन धनेन अहं
अजद्वयं क्रेष्यामि। ततः कालक्रमेण नैकाः अजाः भविष्यन्ति। तासामपि विक्रयणं
करिष्यामि। ततः प्राप्तेन धनेन अहं गो-द्वयं क्रेष्यामि। ततः कालक्रमेण अनेकाः
गावः भविष्यन्ति। तासामपि विक्रयणं करिष्यामि। ततः प्राप्तेन धनेन अहम् अश्वद्वयं
क्रेष्यामि। ततः कालक्रमेण नैके अश्वाः भविष्यन्ति। मम एका अश्वशाला भविष्यति। एकं
बृहद् गृहं भविष्यति। एका रूपवती पत्नी भविष्यति। एकं पुत्रः भविष्यति। कदाचित्
अहं कार्ये व्यस्तः भविष्यामि। मम पुत्रः कार्ये विघ्नम् उत्पादयिष्यति। तस्य माता
पुत्रे अवधानं न करोति, अतः अहं कोपेन पादेन तां ताडयिष्यामि” इति चिन्तयन् सः
नागदन्ते लम्बितं गोधूम-पिष्ट-पात्रम् एव पादेन प्रहरति। पात्रं भग्नं भवति।
पिष्टं भूमौ विकीर्णं भवति। संस्कृते उक्तिः अपि अस्ति, “उत्पद्यन्ते विलीयन्ते
त्रिशष्ट्युत्तर-अष्टादशशततमे वर्षे जन्म प्राप्तवान्। विश्वनाथ-दत्तः तस्य पिता।
भुवनेश्वरी देवी तस्य माता। युवावस्थायामेव सः काषाय-वस्त्र-धारी सन्यासी अभवत्।
एकदा सः एकाकी वनमार्गेण गच्छति स्म। तत्र एकस्मिन् वृक्षे वानराः आसन्। ते
विवेकानन्दस्य अनुसरणम् आरब्धवन्तः। विवेकानन्दः भीतः। भीत्या यदा सः स्वस्य वेगं
वर्धितवान् तदा वानराः अपि वेगेन तम् अनुसृतवन्तः। तद् दृष्ट्वा सः इतोऽपि भीतः। सः
धावनम् आरब्धवान् <o:p></o:p>
संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com0tag:blogger.com,1999:blog-1200073942555360050.post-91289038369869722532011-05-27T08:48:00.000-07:002011-05-27T08:48:58.257-07:00उन्नततमं तृणम्कदाचित् कश्चन गुरुः शिश्यम् अवोचत्, "वत्स सम्प्रति वर्षाकालः किल? अस्माकम् आश्रमस्य पुरतः स्थितायां विशालायां भूमौ बहुलं तृंणं प्रवृद्धं विद्यते। गच्छ तत्र। सर्वत्र अट। यत्र सर्वतः उन्नतं तृणतन्तुं पश्यसि तत्रैव त्वया स्थातव्यम्। अत्र वर्तते कश्चन समयः। त्वया केवलम् अग्रे गन्तुं शक्यते। कदापि पृष्ठतः गन्तुं नार्हसि त्वम्" इति। गुरोराज्ञां प्राप्य शिष्यस्तु अनुक्षणं तां तृणबहुलां भूमिं प्रति प्रस्थितः। यावत् किञ्चिदेव अटितं तावदेव तेन कश्चन अत्युन्नतः तृणातन्तुः दृष्टः चिन्तितं च अत्रैव तिष्ठामि इति। पुनरपि चिन्तितम्, "बहुविशालायाम् अस्यां भूमौ नूनम् अग्रे इतोऽपि उन्नतः तृणतन्तुः स्यादेव" इति। इत्थं विचिन्त्य स अग्रे प्रस्थितः। ततो बहु अटनाद् अनन्तरम् अपि तेन तावान् उन्नतः तन्तुः कुत्रापि न प्राप्तः। तदा तेन चिन्तितम्, "अहो! स्खलितम् एव मया। स एव तन्तुः प्रायः उन्नततमः आसीत्। परन्तु हा! धिक्! अधुना प्रत्यावर्तनं नैव शक्यम्। अस्तु इतोऽपि अन्विश्यामि" इति। पुनरपि अग्रे कश्चित् उन्नतः तन्तुः प्राप्तः एव। पुनरपि शिष्यस्य मनसि द्वैतम् उत्पन्नम्, "स्थेयं वा प्रस्थेयम्" इति। एवं कारं कारम् अन्ततो गत्वा सम्पूर्णायाः तृणमय्याः भूमेः अटनं समाप्तम्। स शिष्यः कुत्रापि न स्थितः। अन्ते स कञ्चित् महत्त्वपूर्णं पाठं पठित्वा स गुरोः समीपं प्रतिनिवृत्तः।
चिन्तयन्तु...संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com0tag:blogger.com,1999:blog-1200073942555360050.post-55710075465842062162011-05-27T08:28:00.000-07:002011-05-27T08:28:56.860-07:00मनःप्रवृत्तिःकश्चन शिष्यः गुरुमुपगम्य अवदत्, "गोरो ध्यानस्य विधिम् अधिगन्तुम् इच्छामि। कृपया अध्यापयतु भवान्" इति। "अस्तु। श्वः प्रातरेव मनः सर्वथा रिक्तं कृत्वा आगच्छ। तदा अध्यापयिष्यामि" इति उक्तं गुरुणा। "बाढम्" इत्युक्त्वा शिष्यः ततो निर्गतः। अन्ये द्युः गुरोः आदेशानुसारं स शिष्यः प्रातरेव तस्य सकाशमागतः। गुरुणा उक्तम्, "वत्स, उपविशात्र। नेत्रे निमीलय" इति। शिष्येण तथैवाचरितम्। ततो गुरुणोक्तं, "किं त्वया स्वमनः सर्वथा विचारशून्यं कृतम्?" इति। शिष्येण "आम्" इत्युक्तम्। ततो गुरुः पुनरपि प्रोवाच,"किं त्वं सम्प्रति किमपि न चिन्तयसि?" इति। "एवम्" इत्युक्तं शिष्येण। गुरुरुवाच,"आश्रमं प्रति आगमनमार्गे कश्चित् मृतः उष्ट्र पतितः आसीत्। किं सोऽपि सम्प्रति तव मनसि नास्ति?" इति। शिष्यः कञ्चित् कालं तूष्णीम् उपाविशत्। ततस्तेन उक्तं,"गुरो, स उष्ट्रः मे मनसि नैव आसीत्। परमधुना यद् भवता स स्मारितः, ततो महता प्रयत्नेनापि स मम मनसः न निस्सरति!" इति। गुरुः मन्दं हसन्नेव अतिष्ठत्। चिन्तयन्तु..
(श्रीहरिभाई-कोठारी-महोदयस्य प्रवचनेभ्यः उद्धृतम्)संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com0tag:blogger.com,1999:blog-1200073942555360050.post-60259539789854786902011-02-12T00:03:00.000-08:002011-02-12T00:16:37.766-08:00क-कारात् परं ख-कारः एव किल?आसीत् कश्चन बालः। वयसा अत्यन्तं लघुः। प्रत्यग्रमेव तेन शालागमनम् आरब्धम्। तत्र बालकेन्द्रे प्रत्यग्रमेव शिक्षकः वर्णमालाम् अपाठयत्। बालेनापि परिश्रमैः वर्णमालायाः क्रमः लेखनपद्धतिः च आत्मसात्कृतौ। वर्णमालां ज्ञात्वा "अधुना अहं साक्षरः" इति सः अचिन्तयत्। तस्य बालस्य पितामहः कश्चन महान् लेखकः आसीत्। तेन शतशः ग्रन्थाः प्रणीताः आसन्। सर्वासु दिक्षु तस्य विदुषः कीर्तिः प्रासरत्। कदाचित् बालोऽपि अचिन्तयत्, "अधुना यतः अहं साक्षरः सञ्जातः,ततः पश्यानि मम पितामहेन अपूर्वकीर्तिसम्पादकं किं साहित्यं विरचितम्" इति। पितामहस्य ग्रन्थागारात् तेनैव प्रणीतेषु स्थूलतमं ग्रन्थम् उन्नीय यावदवलोकयते, तवत् प्रथमे एव शब्दे प्रमादः सम्प्राप्तः इत्यहो आश्चर्यम्! झटिति तेन पितामहः आहूतः, कथितं च, "अये कथं पितामह, भवादृशेन प्रणीतस्य ग्रन्थस्य प्रथमे एव पृष्ठे, प्रथमे एव शब्दे लक्ष्यते प्रमादः! "कथं प्रमादः?" इति पितामहेन पृष्टम्। तदा पौत्रः विवरणं प्रास्तौत्- "पश्यतु भवान्, किमत्र लिखितम्- ’कमलम्’ इति। अस्मिन् शब्दे क-कारोत्तरं म-कारः दृश्यते किल? नैतद् युज्यते। क-कारोत्तरं ख-कारः एव लेखनीयः इति अस्माकं शिक्षकः अपाठयत्। तदेतत् भवता विलिखितं सर्वं सर्वथा असाधु" इति।
पितामः स्मेरमुखः स्वीयाय प्रमादाय पौत्रं क्षमाम् अयाचत।
चिन्तयन्तु...संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com2tag:blogger.com,1999:blog-1200073942555360050.post-44532296177784891202011-01-17T21:44:00.000-08:002011-01-17T21:44:01.802-08:00स्वामिनः स्वपनानन्तरम्आसीत् कश्चन सार्थवाहः। तस्य समीपे शतम् उष्ट्राः आसन्। तेषां परिपालनाय तेन कश्चन पुरुषः नियुक्तः आसीत्। कदाचित् सः पुरुषः अस्वस्थः समजायत। तस्मात् सार्थवाहेन तस्मै कतिचनमासात्मकः विरामः प्रदत्तः, तस्य स्थाने च अपरः कश्चित् पुरुषः नियुक्तः। प्रथमायां रात्रौ पुरुषः सार्थवाहस्य मण्डपम् आगत्य अपृच्छत्, "स्वामिन्, मया कदा निद्रातव्यम्?" इति। स्वामिना उक्तम्, "यदा सर्वे उष्ट्राः उपविशन्ति तदा त्वया निद्रातव्यम्" इति। तेन पुरुषेण आरात्रि प्रतीक्षितम्। यावत् केचन उष्ट्राः उपविशन्ति स्म, तावत् इतरे उत्तिष्ठन्ति स्म। सर्वे उष्ट्राः तु न कदापि उपविष्टाः। द्वितीयस्यां रात्रौ पुरुषः पुनरपि स्वामिनः समीपम् अगच्छत्, अपृच्छत् च, "स्वामिन्, अद्य कदा निद्रातव्यं मया?" इति। पुनरपि तदेव उत्तरं प्राप्तं तेन, "यदा सर्वे उष्ट्राः उपविशन्ति तदा निद्रतव्यम्" इति। द्वितीयस्यां रात्रौ अपि तेन पुरुषेण सर्वेषाम् उष्ट्राणाम् उपवेशनस्य प्रतीक्षा कृता। परन्तु तथा नाभवत्। द्वितीयस्यां रात्रौ अपि तेन निद्रा न प्राप्ता। तृतीयरात्रिपर्यन्तं सः अतीव श्रान्तः आसीत्। पुनरपि स्वामिनं गत्वा पृच्छति, "स्वामिन्! मया कदा स्वपनीयम्?" इति। स्वामिना ईषदिव क्रोधेन उक्तम्, "किमर्थं त्वं भूयो भूयः तदेव पृच्छसि? उक्तं किल मया सर्वेषाम् उष्ट्राणाम् उपवेशनानन्तरं त्वं स्वपितुमर्हसि इति?" इति। पुरुषेण मनसि चिन्तितम्, "अद्य रात्रौ अपि यदि निद्रा न प्राप्यते तर्हि अहं जीवितुमेव न शक्ष्यामि" इति। पुनरपि तेन सर्वेषाम् उश्ट्राणाम् उपवेशनस्य प्रतीक्षा आरब्धा। अद्य सुरात्री स्यात् कदाचित्। मध्यरात्रौ तेन दृष्टं यत् क्रमशः सर्वे उष्ट्राः उपविशन्तः सन्ति। दश उष्ट्राः उपविष्टाः। ततः विंशतिः। ततस्त्रिंशत्। ततश्चत्वारिंशत्। एवं क्रमेण अशीतिः, ततो नवतिः, एकनवतिः , द्विनवतिः, त्रिनवतिः..... नवनवतिः... अधुना एकः एव उष्ट्रः जागर्ति स्म। सः पुरुषः मनसि ईश्वरं प्रार्थयमानः आसीत्। अर्धहोरा अतीता। सः एकः एव उष्ट्रः तिष्ठति। सर्वेऽपि अन्ये उपविष्टाः। अन्ततः पुरुषस्य धैर्यं विनष्टम्। सः तस्य उष्ट्रस्य गलस्थाः रज्जुम् आकृष्य यावत् तं बलात् उपवेशयितुं प्रायतत तावत् तस्य ग्रीवास्था घण्टा अनदत्। तं नादं श्रुत्वा सर्वेऽपि उष्ट्राः उत्थिताः। वराकः सः तस्यां रात्रावपि नालभत निद्राम्।
एवम् आदिनं कार्यं कुर्वता, रात्रौ च निद्राम् अप्राप्नुवता तेन जीवितुं नैव शक्यते इति तेन ज्ञातम्। तावति एव तस्य मनसि विचारः आगतः, "पूर्वतनः उष्ट्रपालः किं करोति स्म इति पृच्छानि" इति। सपदि सः तस्य गृहः गतः। तेन तस्मै स्वीया समस्या निवेदिता। पूर्वतनः उष्ट्रपालः तत् श्रुत्वा ईषदिव विहस्य तं पुरुषम् अवदत्,"भद्रमुख, सर्वे उष्ट्राः न कदापि युगपदेव उपवेक्ष्यन्ति" इति। ततः पुरुषेण पृष्टम्,"एवं स्थिते मया निद्रा कदा विधेया?" इति। तदा पूर्वतनः उष्ट्रपालः अवदत्, "त्वया उष्ट्राणाम् उपवेशनस्य प्रतीक्षा न कर्तव्या, त्वया तस्य स्वामिनः स्वपनस्य प्रतीक्षा कर्तव्या। स्वमिनः स्वपनानन्तरं त्वयापि स्वपनीयम्" इति। तदनन्तरं सः पुरुषः तथैव आचरत्। सुखेन च उष्ट्रपरिपालने प्रावर्तत च।
चिन्तयन्तु....
(हरिभाई-कोठरी-महोदयस्य प्रवचनेभ्यः उद्धृता इयं कथा)संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com0tag:blogger.com,1999:blog-1200073942555360050.post-6299682383386063292011-01-17T21:08:00.000-08:002011-01-17T21:09:19.249-08:00पलाण्डवः अपि खादिताः कशाघाताः चापि सोढाःएवमुच्यते यत् राज्ञः अकबरस्य श्यालः आसीत् कश्चन। तेन कश्चन अपराधः कृतः। सैनिकैः सः राज्ञः पुरतः आनीतः। अकबरः तस्य अपराधं ज्ञात्वा अन्यसदृशमेव दण्डं दातुम् ऐच्छत्। परन्तु तथा करणेन राज्ञी रुष्टा स्यात् इति भीतिरासीत् तस्य मनसि। किं करणीयम् इति सः वीरबलम् अपृच्छत्। वीरबलेन उक्तम्, "राजन्! चिन्तां मा कुरु। श्वः यदा तव श्यालः पुनरपि न्यायार्थं राजसभाम् आनेष्यते, तदा केवलं तस्य अपराधं सम्यक् जानातु भवान्। येन अपराधिनः सम्यक् शिक्षा स्यात्, राज्ञी च रुष्टा न स्यात् तथा दण्डेन अहं योजयामि तम्" इति।
अपरस्मिन् दिने सभायां राज्ञी अपि उपस्थिता आसीत्। राज्ञा तथैव अनुष्ठितम्। स्वस्य श्यालस्य अपराधनिश्चित्यनन्तरं "वीरबलः तस्मै योग्यं दण्डम् उद्घोषयिष्यति" इति उक्त्वा राजा विरतः। वीरबलेन सर्वं श्रुत्वा उक्तम्, "भद्र, तव अपराधः न सामान्यः। त्वं कठोरं दण्डम् अर्हसि परन्तु त्वं महाराजस्य श्यालः अतः तुभ्यं नातिकठोरः दण्डः प्रदास्यते। त्वया शतं पलाण्डवः वा खादनीयाः शतकशाघाताः वा सोढव्याः। अनयोः एकं दण्डं त्वमेव तुभ्यं वृणीष्व" इति। अपराधिना चिन्तितं पलाण्डुखादनं न तावते क्लेशाय। तस्मात् तेन तदेव वृतम्। परन्तु यावत् तेन दश पलाण्डवः खादिताः तावत् तेन ज्ञातं यत् इतः परम् इतोऽपि पलाण्डुखादनम् अशक्यम् एव। तस्य नेत्रयोः अश्रूणि वहन्ति स्म। कशाघातसहनमेव एतस्य अपेक्षया वरतरम् इति सः ज्ञातवान्। तेन सपदि पलाण्डुखादनं स्थगितम्। ततः तस्य इच्छानुगुणमेव तस्मिन् कशाघाताः विहिताः। परन्तु दशाधिकान् कशाघातान् प्राप्यैव सः भूमौ पतितः। ईदृशाः कठोराः आघाताः तेन इतोऽपि सोढुं नैव शक्याः आसन्। पलाण्डु खादने एव पुनः यत्नः विधेयः इति विचिन्त्य तेन पुनरपि दश पलाण्डवः भुक्ताः। पुनरपि तद् असहमानः सः कशाघातप्राप्तये सज्जः। एवम् अन्ततो गत्वा तेन शतं पलाण्डवः अपि खादिताः, शतं कशाघाताः चापि सोढाः।
चिन्तयन्तु....
(मम स्वर्गीयेन मित्रेण हरीश-तन्ना-महाभागेन मह्यम् इयं कथा उक्ता)संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com1tag:blogger.com,1999:blog-1200073942555360050.post-86976958356378771342010-12-29T07:27:00.000-08:002010-12-29T09:12:01.302-08:00चायार्थः विरोधःअस्ति कश्चन ग्रामः। तत्रत्याः ज्येष्ठाः प्रतिमासं सकृत् एकत्र समिल्य ग्रामसम्बन्धिविषयाणां चर्चां कुर्वन्ति| स्वस्य उद्योगादिकं समाप्य रात्रिभोजनं कृत्वा रात्रौ नववादने सर्वे एकत्रिताः भवन्ति। अस्याः गोष्ठ्याः आरम्भसमयस्तु निश्चितः परन्तु न समाप्तिसमयः। ग्रामसम्बद्धाः समस्याः यथा अनन्ताः तथैव इयं गोष्ठी अपि। सर्वेऽपि इमे ग्रामहिताय चिन्तयन्ति। किन्तु सर्वेषां चिन्तनस्य दिक् भिन्ना। यम् उपक्रमम् एकः ग्रामस्य उपकाराय मन्यते अपरः तमेव ग्रामस्य महते अपकाराय मन्यते। इतरः भिन्नमेव उपक्र्मं चिन्तयति। तेनैव गिष्ठ्यां सर्वदा महान् कलहः भवति। तत्र गोष्ठीकक्षात् बहिरेव कश्चन चायविक्रेता आरात्रि तिष्ठति। यः कलहात् त्रस्तः भवति सः बहिरागत्य तस्मात् चायं स्वीकरोति। किञ्चित् स्फूर्तिं प्राप्य पुनः गोष्ठीकक्षं प्रविश्य अन्यैः सह चर्चाम् अनुवर्तयते। एवं प्रतिगोष्ठि तस्य चायस्य महान् विक्रयः भवति।
एकस्यां रात्रौ प्रतिवारमिव नववादने गोष्ठी आरब्धा। चायविक्रेतापि प्रतिवारमिव गोष्ठीकक्षात् बहिः स्थितः। परन्तु अहो आश्चर्यम्! अस्मिन् अवसरे एकैकशः सर्वेऽपि चर्चाविषयाः झटिति एव सर्वमान्यतां प्राप्नुवन्ति। न कोऽपि कस्यापि विरोधं करोति। गोष्ठिकक्षे कलहस्य वातावरणमेव नास्ति। सर्वेषां मुखानि स्मयमानानि सन्ति। सर्वमेतद् दृष्ट्वा बहिः चायविक्रेता स्थितः चिन्तातुरः समजायत। यदि गोष्ठी अचिरात् समाप्ता स्यात् तर्हि को वा मम चायं पास्यति? इति विचिन्त्य सः स्वयमेव उष्णीषं परिधाय ज्येष्ठानां तेषां सदसि सम्मिलितः। यावत् चर्चा प्रचलति स्म, तावत् मध्ये एव हस्तम् उत्तोल्य स प्रोच्चैः अवदत्, "न हि , मम विरोधः अस्ति!" इति। सहसैव गोष्ठीकक्षे सर्वत्र शान्तिः प्रसृता। सर्वे निश्शब्दाः सन्तः तमेव पश्यन्तः आसन्। तावति एव केनापि विचक्षणेन सदस्येन सः चायविक्रेता अभिज्ञातः। तस्य विरोधस्य वास्तविकं कारणं विज्ञाय किञ्चिदिव विहस्य सः तमवदत्, "भद्र मा विरोधं कुरु, इतः गमनसमये सर्वेऽपि सदस्याः त्वत्तः चायं निश्चयेन क्रेष्यन्ति" इति।
चिन्तयन्तु....संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com0tag:blogger.com,1999:blog-1200073942555360050.post-26542096859292465602010-11-23T11:54:00.000-08:002010-11-23T11:54:06.349-08:00तत्र क: संशयः?कदाचित् कश्चन पुरुषः कञ्चित् विशिष्टं शुकम् आदाय कस्यचन महाराजस्य सभायाम् उपस्थितः। रूपतः सुन्दरः स शुकः महाराजाय नितराम् अरोचत। शुकं क्रेतुकामः महाराजः तं पुरुषम् अपृच्छत्, "भद्र! किम् अस्य शुकस्य मूल्यम्?" इति। पुरुषोऽवदत्, "सहस्रं सुवर्णनाणकानि" इति। चकितः महाराजः पुनरपि अब्रवीत्, "कस्मात् एतावत् मूल्यम् अस्य सामान्यस्य शिकस्य?" इति। तदा पुरुषेण उक्तम्, "महाराज, नायं सामान्यः शुकः। अयं तु पृष्टानां प्रश्नानाम् उत्तराणि वक्तुं समर्थः" इति। महराज उवाच, "नाहं विश्वसिमि" इति। पुरुष आह, "तर्हि स्वयं शुकः एव पृच्छ्यताम्" इति। महाराजः शुकम् अपृच्छत्, "किं त्वं प्रश्नानाम् उत्तराणि वक्तुं समर्थः?" इति। झटिति शुकेनोक्तम्, "तत्र कः संशयः?" इति। महाराजः प्रभावितः। स पुनरपृच्छत्, "किं तव मूल्यं सहस्र-सुवर्ण-नाणक-मितं विद्यते?" इति। शुकः प्राह, "तत्र कः संशयः?" इति। महाराजः शुकस्य प्रतिभां दृष्ट्वा विस्मितः। अनुक्षणं तेन राजकोषात् सहस्रं सुवर्णनानि प्रदाय स शुकः क्रीतः। स तं शुकं प्रासादस्य द्वारे एव अस्थापयत्। ये अतिथयः महाराजस्य दर्शनार्थम् आगच्छन्ति स्म तान् सः पृष्टानां प्रश्ननाम् उत्तरदाने समर्थम् एतं शुकम् अपि सोत्साहं दर्शयति स्म। सर्वेऽपि तं शुकं दृष्ट्वा विस्मिताः सन्तः तमेव शुकं पृच्छन्ति स्म, "भोः किं तव मूल्यं सहस्र-सुवर्ण-नाणकमितम्?" इति। सोऽपि अनुपदम् उत्तरयति स्म,"तत्र कः संशयः?" इति। तद् श्रुत्वा चकितचकिताः अतिथयः तस्य क्रेतारं गुणज्ञं राजानं बहुशः प्रशंसन्ति स्म। तस्य महाराजस्य कश्चित् चतुरः मन्त्री इमां वार्तां ज्ञातवान्। कस्यचित् शुकस्य क्रयणे महाराजानुमत्या राजकोषात् इयतः धनस्य व्ययः नारोचत तस्मै। सोऽपि राजदर्शनव्याजेन शुकदर्शनाय राजप्रासादं गतः। राजा तन्मुखादपि शुकक्रयणविषये प्रशंसाम् उत्प्रेक्षमाणः तस्मै शुकम् अदर्शयत्। परं नायं मन्त्री अन्यसदृशः राजप्रशंसया राजानुकूल्यमात्रस्य सम्पादने तत्परः। अयं तु वस्तुतः महाराज्यस्य हितं कामयते स्म। सोऽपि अपृच्छत् शुकम्, "अये किं त्वं पृष्टानां सर्वेषां प्रश्नानाम् उत्तराणि प्रदातुं समर्थः?" इति। शुक उवाच, "तत्र कः संशयः?" इति। ततश्च पुनरपि मन्त्री पप्रच्छ, "किं सहस्र-सुवर्ण-नाणक-मितं तव मूल्यम् उचितम्?" इति। पुनरपि शुक उवाच,"तत्र कः संशयः?" इति। मन्त्रिणा एतावता एव सर्वम् अभिज्ञातम्। झटिति मन्त्रिणा पुनरपि स शुकः पृष्टः, "किं सहस्रं सुवर्णनाणकैः येन त्वं क्रीतः स राजा मूर्खः नास्ति?" इति। शुकेन पुनश्च तदेव उत्तरम् उक्तम्, "तत्र कः संशयः?" इति। मूर्खः स महाराजः अतीव कुपितः तं शुकं व्यापादितवान्।
चिन्तयन्तु...संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com0tag:blogger.com,1999:blog-1200073942555360050.post-79488378551010876452010-11-12T04:49:00.000-08:002010-11-12T04:49:28.547-08:00दुष्पूरः कामःकस्मिंश्चित् ग्रामे कश्चन अतिलुब्धः कृषकः न्यवसत्। तस्य समीपे विशाला उर्वरा क्षेत्रभूमिः आसीत्। तत्र कृषिकार्यं कृत्वा सः बहुलं धनं सम्पादयति स्म। तेन धनेन सः सहजतया एव स्वस्य कुटुम्बं पोषयितुं शक्नोति स्म। ततश्च सः किञ्चित् धनं रक्षितुमपि शक्नोति स्म। तथापि तस्य आयेन सः असन्तुष्टः आसीत्। कदाचित् सः नगरम् अगच्छत्। तत्र नगरश्रेष्ठिनः वैभवं दृष्ट्वा सः अतीव प्रभावितः। तस्य गृहम् अतीव विशालं, समलङ्कृतं च आसीत्। तस्य समीपे महत् पशुधनम् अपि आसीत्। नैके सेवकाः आनिशं तस्य सेवने रताः भवन्ति स्म। दिने वरुत्वारं मिष्टान्नभक्षणं करोति स्म सः।
तं दृष्ट्वा "मयाऽपि श्रेष्ठिना इव धनिकेन भाव्यम्। परन्तु कृषिकार्यात् कुतः इतावत् अर्थोपार्जनम्? तदधुना किं वा कर्तव्यम्?" इति सः चिन्तयति। सः शिवस्य परमः भक्तः आसीत्। अतः तेन चिन्तितम्, "स्वयम् ईश्वरः एव मह्यम् अधुना श्रेष्ठिनः इव धनस्य दानेन अनुग्रहीष्यति" इति। इत्थं विचिन्त्य सः तत्रैव कस्यचिद् वृक्षस्य अधः शिवाराधनं प्रारभत। "यावत् शिवः मम प्रार्थनां न शृणोति तावत् अनशनं कृत्वा तपः आचतिष्यामि" इति निर्णयः तेन कृतह्। तस्मिन् लुब्धत्वं विहाय न कोऽपि अन्यः दिषः आसीत्। बहूनि दिनानि अतीतानि। कृषीवलस्य शरीरम् अनशनेन कृषं अतीव संजातम्। परन्तु तेन व्रतभङ्गः नैव कृतः। कैलासे स्थिता पार्वती तस्य विषये चिन्तिता अभवत्, शिवं च अकथयत्, "कथं भवान् स्वस्यैव भक्तस्य ईदृशीं दुरवस्थां दृष्ट्वापि चिन्तितः। भवतः प्रियस्य भक्तस्य प्रार्थितं कस्मान्न यच्छति तस्मै?" इति। तदा शिवेन उक्तम्, "देवि, तस्मिन्नेव तस्य क्षेमं भविष्यति इति अहं पश्यामि" इति उक्तवान् शिवः। पुनरपि कतिचित् दिनानि अतीतानि। शिवस्तु अधुनापि न प्रसीदति। तस्य दुर्दशां द्रष्टुम् अशक्नुवती पार्वती पुनरपि आह महादेवाय, "देव न अधुना अस्य अवस्थां द्रष्टुं शक्नोमि अहम्। कृपया अनुगृह्य्ताम् अयं भवदीयः भक्तः" इति। महादेवस्तु अवदत्, "देवि स्वशरीरस्य पीडया एव एषः तपः त्यजेत् इति आसीत् मम इच्छा. तैनैव अस्य श्रेयः स्यात्। कथम् एतद्? इति स्वयमेव दृश्यताम्" इति। ततः महादेव भक्ते प्रसन्नः तस्मै वरं दातुम् ऐच्छत्। तदा कृषिकेनोक्तम्, "भगवन्, मह्यम् इतोऽपि भूमिः दीयताम्"इति। सर्वविभवानां स्वामी पुनरपि अपृच्छत्, "कियतीं भूमिम् इच्छसि पुत्रक? स्पष्टं कथय। तावती भूमिः अनुक्षणं त्वदीया भविष्यति" इति। महता आयासेन प्रसन्नात् ईश्वरात् यावद् अधिकं लभ्यते तावदेव वरम् इति चिन्तयन् सः प्रत्युवाच’"भगवन् अहम् अधुना प्रातःकले एव धावनस्य आरम्भं करोमि। सायं सूर्यास्तं यावत् प्रधाव्य अत्रैव प्रत्यागमिष्यामि। तावता यावती भूमिः मया क्राम्येत सा मदीया भवतु" इति। शिवेन तद् अङ्गीकृतम्। कृषकः विना किञ्चिदपि कालक्षेपं धावनम् आरब्धम्। किञ्चिदेव धावित्वा सः श्रान्तः। परन्तु न सः धावनं स्थगितवान्। "अद्य एकं दिनं यदि अहम् अधिकं धावामि तर्हि इतः परम् आजीवनं मया विश्रामः कर्तुं शक्येत" इति विचिन्त्य श्रान्तः अपि सः न अस्थगत्। बुभुक्षितः अपि भोजनाय धावनात् न विरतः। पिपासितः सन्नपि क्षणस्य एकस्य अपि अपव्ययं कर्तुम् अनिच्छन् सः धावन्नेव आसीत्। अधुना मध्याह्नं सञ्जातम्। तेन इष्टस्य भूखण्डस्य परिक्रमा करणीया आसीत्। तदर्थं यस्मात् स्थानात् सः आरभत, तत्रैव पुनः प्राप्तव्यम् अपि आसीत्। तस्माद् अधुना प्रत्यावर्तनस्य कालः इति सः जानाति स्म। "परन्तु सुवर्णावसरः अयं महताप्रयत्नेन लब्धः। न कदापि पुनरायाति। तस्मात् इतोऽपि कञ्चित् कालम् अग्रे धावामि। ततश्च प्रत्यागमनसमये किञ्चित् वेगेन प्रधाव्य सूर्यास्तात् प्राक् आरम्भस्थानं प्राप्स्यामि एव" इति विचिन्त्य सः इतोऽपि अग्रे अधावत्। क्रमेण सूर्यास्तसमयः सन्निहितः। अधुना सूर्यास्तात् प्राक् कथमपि आरम्भस्थानं प्राप्तव्यमेव इति निश्चित्य अतीव श्रान्तः अपि सः वेगेन प्रत्यागमनमार्गेण धावनम् आरब्धवान्। परन्तु अहो दुःखम्! तावति अल्पे समये तावः अन्तरात् आरम्भस्थानं प्रति अगमनम् अशक्यम् एव आसीत्। मनसि एतद् जानन् अपि सः स्वात्मानं कर्षयन् एव धावनवेगं वर्धयितुं प्रयतमानः एव महत्या श्रान्त्या आक्रन्तः आरम्भस्थानात् अतीव दूरे एव पतितः। पञ्चत्वं गतः। चिन्तयन्तु....संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com4tag:blogger.com,1999:blog-1200073942555360050.post-32353957251919687102010-07-12T12:07:00.000-07:002010-07-12T12:50:15.264-07:00योगक्षेमं वहाम्यहम्पुरा कोऽपि संस्कृतपण्डित: कस्यचिद्राज्ञ: सभां गत:। राज्ञ: पुरत: स्वपाण्डित्यप्रदर्शनेन विपुलं धनं कीर्ति: च सम्पादयिष्यते तेन इति तेन चिन्तितम्। राज्ञा पण्डितवर: प्रणत: पृष्ट: च, "पण्डितवर, कस्मिन् विषये तत्रभवत: पाण्डित्यम्?" इति। पण्डतेनोक्तम् , " अहं तु सर्वशास्त्रविशारद: परन्तु श्रीमद्भगवद्गीतासु मम विशेषानुराग:" इति। राज्ञोक्तं - " तथा चेत् गीतास्थ: श्लोकोऽयं व्याख्यायताम् - अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥" इति। श्लोकोऽयम् अतीव प्रसिद्ध: विद्यते। भगवता श्रीकृष्णेन अत्र उक्तम् यत् - ये केचन जना: अनन्यशरणा: सन्त: माम् उपासते, मम आराधनं कुर्वन्ति, नित्यम् अभियुक्तानां तेषां योगक्षेमं, तन्नाम सर्वासाम् आवश्यक्तानां पूर्तिं जीवननिर्वहणं च अहं वहामि’ इति। स विद्वान् अनुक्षणं तं श्लोकम् अधिकृत्य होरां यावत् भाषणम् अकरोत्। बहुभि: उदाहरणै: श्रुतिस्मृतिवचनै: च श्लोकस्य अस्य अर्थं सुष्ठु विवृतवान् स:। परन्तु भाषणान्ते राज्ञो मुखे तथा सन्तोष: न दृष्ट: तेन। राज्ञोक्तं, "विद्वद्वर तत्रभवतो भाषणम् अतीव विद्वत्तापूर्णम् इत्यत्र नास्ति शङ्कालेश:, परन्तु इतोऽपि किञ्चित् अस्पष्टता अस्ति तत्र इति मम हृदयं वदति" इति। पण्डितवर: न मनागपि खिन्न:। तेनोक्तम्, "भवतु राजन्, अहं पुनरपि गभीरतरम् अध्ययनं कृत्वा इमम् एव श्लोकम् अधिकृत्य श्व: पुनरपि व्याख्यास्यामि" इति। द्वितीयेऽहनि पुनरपि होरां यावत् विनूतनानि उदाहरणानि प्रस्तूय तेन अयमेव श्लोक: विवृत:। तथापि राज्ञो मुखे सन्तोष: नासीत्। "इतोऽपि तत्रभवत: भाषणे काचित् न्यूनता प्रतिभाति मे इति" राज्ञा उक्तम्। न पण्डितेन अपि धैर्यं त्यक्तम्। तृतीयेऽहनि पुनरपि तमेव श्लोकम् अधिकृत्य स व्याख्यातवान्। परन्तु इतोऽपि राज्ञ: सन्तोष: नासीत्। एवम् एव दशदिनानि यावत् सततं प्रतिदिनं होरां यावत् नवनवै: उदाहरणै: श्रुतिस्मृतिवाक्यै: च स विद्वान् प्रत्यपासयत् परन्तु राज्ञ: इतोऽपि सन्तोष: नास्ति। अधुना पण्डित: किञ्चिदिव हताशताम् अन्वभवत्। स मनसि अकरोत्, "श्लोकस्यास्य विषये उपलब्धा: सर्वा: टीका: मया अधीता:, तत्सम्बद्धं सर्वं साहित्यं चावलोकितम्। सर्वमपि तत्र प्रास्तवम्। इत: परं किं मया राज्ञ: सन्तोषार्थं कर्तव्यम्?" इति। द्वितीयदिने प्रात: पुनरपि राज्ञ: सभा गन्तव्या आसीत्। पुनरपि किमपि विनूतनं तस्यैव श्लोकस्य विषये वक्तव्यम् आसीत्। किं वा वदानि अद्य? इति सम्भ्रान्त: स: सहसा सर्वा: टीका: अत्यजत्। श्रीकृष्णस्य प्रतिमामवलोकयन् मूलम् एव श्लोकं भूय: भूय: पठन्नासीत् स:। "अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥" इति। सहसैव तस्य मनसि प्रकाश: जात:। स मनसि अकरोत् " अये! अत्र तु भगवता उक्तं यत् योगक्षेमम् अहं वहामि इति, तत् कस्मात् अहं मम योगक्षेमस्य चिन्तां कुर्वन् तस्य राजस्य सन्तोषार्थं प्रयतमान: अस्मि?" इति। तेनेदम् अवगतं यत्, अनन्य: सन् श्रीकृष्णस्य शरणं गतस्य तस्य कृते राज्ञ: अनुग्रहस्य कापि आवश्यकता एव न विद्यते। तस्मिन् दिने स राजसभामेव न गत:। सभायां तं प्रतीक्षमाण: राजा एव स्वयं तस्य आगमनस्य वेलाया: अतिक्रमणाद् अनन्तरं तेन मेलनार्थं तस्य गृहमायात:। तेनोक्तं, "भो: पण्डितवर, कस्मादद्य तत्रभवान् सभामेव नागत:?" इति। पण्डितेन उक्तं, "भगवता श्रीकृष्णेन एव मम योगक्षेमस्य निर्वहणस्य दायित्वं स्वीकृतम् अस्ति इति वस्तुत: अहम् अद्य अवगतवान्। अधुना मम भवत: कापि अपेक्षा एव नास्ति। तस्मात् अद्य अहं राजसभां नैव आगच्छम् यदि भवान् मत्त: ज्ञानं प्राप्तुम् इच्छति तर्हि सुखम् आगच्छतु मम गृहम्। अतीव प्रेम्ण भवते ज्ञानं प्रदास्यामि" इति। मन्दं हसन् राजा तदा अवदत्,"पण्डितवर, अद्य भवता अस्य श्लोकस्य वास्तविक: अर्थ: विज्ञात:" इति।
चिन्तयतु....संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com2tag:blogger.com,1999:blog-1200073942555360050.post-69431856922234963352010-06-15T22:25:00.000-07:002010-11-26T07:40:29.967-08:00तत: किं? तत: किम्?...स्वामी विवेकानन्द: स्वस्य देशभक्तिपरकै: भाषणै: चरितेन च नैकान् भारतीयान् प्रैरयत् इति सुविदितम् एव सर्वेषाम्।
अथ कदाचित् स्वामी विवेकानन्द: विदेशयात्रार्थं महानौकया प्रवासं करोति स्म। तस्यामेव नौकायां कश्चन अन्य: भारतीय: युवक: अपि आसीत्। भारतीया: यून: चिन्तनशीला: भवेयु: इति सर्वदा विवेकानन्देन अभिलषितम् आसीत्। स: तस्य युवकस्य समेपं गत:। परस्परपरिचयवेलायां तेन ज्ञातं यत् स: प्रगतं शिक्षणं प्राप्तुं विदेशं प्रति प्रस्थित: अस्ति। तेन स: युवक: पृष्ट:, "कस्मात् प्रगतं शिक्षणं प्राप्तुम् इच्छति भवान्?" इति। युवकेन उत्तरितम्, "प्रगतं शिक्षणं प्राप्य अहं विपुलं धनं सम्पादयितुं शक्ष्यामि" इति। "साधु! तत: किं करिष्यति भवान्?" इति पुन: स्वामिना पृष्टम्। स्वप्नलोकम् इव, स्वेन इष्टं भविष्यलोकम् इव प्रविष्टवान् स युवक: उवाच, "तत: कामपि सुन्दरीं, सुशिक्षितां च कन्यां परिणेष्यामि" इति। "शोभनम्। तत: किं करिष्यति भवन्?" इति पुन: स्वामिना पृष्टम्। आकाशे दत्तदृष्टि: स्वप्नायमान: इव, तं सम्भाविनं कालम् अधुनैव अनुभवन्निव सः अवदत्, "तत: मम सुन्दरा: सुकोमला: पुत्रा: भविष्यन्ति। तै: सह क्रीडने यदा अहं रतः भविष्यामि तदा समयस्य भानम् अपि न भविष्यति मम" इति। "तत: किं भविष्यति" इति स्वामिना पुन: पृष्टम्। "सुशिक्षिता: मे पुत्रा: यदा विवाहयोग्या: भविष्यन्ति तदा तेषां विवाहं कारयित्वा अहं मम सर्वेभ्य: दायित्वेभ्य: विमुक्त: भविष्यामि" इति। "तत: किम्" इति पुन: स्वामिना पृष्टम्। "तत: मम निवृत्तिकाले अहं मम पौत्रै: सह क्रीडिष्यामि। तेभ्य: कथा: कथयिष्यामि। तै: सह नितरां रंस्ये" इति। पुनरपि स्वामिना पृष्टं,"तत: किम्" इति। अधुना स्वप्नलोकात् प्रतिनिवृत्त: इव, किञ्चित् गहनं चिन्तयन् इव आसीत् स युवक: इति तस्य नेत्राभ्यां ज्ञायते स्म। विचाराणां कश्चन ओघ: तस्य मन: सहसा व्याप्नोत्। "तत: किं , तत: किम्" इति इममेव प्रश्नं पुन: पुन: आकर्णयत: तस्य श्वासावरोध: एव अधुना जायमान: अस्ति इति तेन अनुभूतम्। ततस्तेन उक्तं, "भो: सन्यासिन्, किं पुन: पुन: तमेव प्रश्नं करोति भवान्? किं भविष्यति तत:? तत: खलु अहं मरणं प्राप्स्यामि। किमन्यत्?" इति। विवेकानन्दस्य प्रशान्ते गम्भीरे नेत्रे, इत्थं कथयत: तस्य युवकस्य शतश: विचाराणाम् ओघेन त्रस्तयो:, अजस्त्रं चलतो: नेत्रयो: सततं पश्यत: आस्ताम्। सहसा एव युवकस्य नेत्रे अपि स्थिरे। सोऽपि यावत् विवेकानन्दस्य नेत्रे एव पश्यंस्तिष्ठति स्म तावत् सहजतयैव विवेकानन्देन उक्तम्,"अये मरणं प्राप्तुम् एतावत् सर्वं करणीयं भवति इति अहं न जानामि स्म" इति। स्वस्य जीवनकार्यस्य विषये कश्चन महत्त्वपूर्ण: प्रश्न: अधुना युवकस्य मनसि उदित: आसीत्।
....चिन्तयन्तु।संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com2tag:blogger.com,1999:blog-1200073942555360050.post-70153175134044526782010-06-09T07:07:00.000-07:002010-06-12T09:16:31.467-07:00केम्ब्रिज्-विश्वविद्यालयस्य कश्चन प्राध्यापक:.....द्वितीय-विश्वयुद्ध-समये यदा इंग्लेण्ड-देश: पराजयस्य वारणाय स्वीयं सम्पूर्णं सामर्थ्यं योजितवान् आसीत्, देशस्य प्रत्येकं निवसी स्वसामर्थ्येन इंग्लेण्ड-विजयाय यतते स्म, तदा घटित: कश्चन प्रसङ्ग: इत्थं श्रूयते-
केम्ब्रिज्-विश्वविद्यालयस्य कश्चन प्राध्यापक: स्वीये शान्ते प्रकोष्ठे अध्ययने निमग्न: आसत। तावत् कश्चन रुष्ट: इंग्लेण्ड-सैनिक: तस्य अध्ययन-प्रकोष्ठं प्रविशति। सम्पूर्ण: इंग्लेण्ड-देश: यां युद्धस्थितिम् अनुभवन्नासीत् तस्या: विषये अयं प्राध्यापक: सर्वथा उदासीन: इति तस्य प्राध्यापके आक्षेप: आसीत्। प्राध्यापक: स्मेरमुख: तं युवसैनिकं,"कस्य कृते इदं युद्धम्?" इति पृच्छति। "देशरक्षणार्थम्" इति स सैनिक: झटिति उत्तरयति। यदर्थं स सैनिक: स्वप्राणान् पणीकृत्य युध्यते किन्नाम स देश:? इति प्राध्यापक: जिज्ञासति। "अस्य भूखण्डस्य सीमा: तदीय-जना: च समाहृता: देश: इति आख्यां भजन्ते" इत्युक्तं सैनिकेन। "भूखण्डस्तु मृत्तिकामात्रम्, तत् किं मृत्तिका देश:? तदीयजना: तु शतात् वर्षेभ्य: पूर्वं इतरे आसन्, तदापि देशस्तु अयमेव आसीत्। कस्तर्हि देश इत्याख्यां भजते?" इति पुन: पृष्टं प्राध्यापकेन। तस्य कथनस्य तात्पर्यं समक् ज्ञात्वा सैनिकेन अङ्गीकारपूर्वकम् उक्तम् यत् तेन नेदं रक्षितुम् इष्टम् अपितु देशस्य संस्कृति: रक्षितुम् इष्टा। तदा प्राध्यापकेन शान्ततयैव उक्तं यत् सोऽपि तस्मिन्नेव संस्कृते: संरक्षणसंवर्धनयो: कार्ये निरत: आसीत्। सैनिकस्य रोषावेश: प्रशान्त:। स: प्राध्यापकं नत्वा इतोऽपि उत्साहेन देशस्य सांस्कृते: रक्षणाय कटिबद्ध: सन् तत: प्रस्थित:।
.... चिन्तयन्तु।
(श्री.भा.वर्णेकरमहाभागस्य लेखात् उद्धृतम्।)संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com3tag:blogger.com,1999:blog-1200073942555360050.post-48289618179390706722010-06-07T01:17:00.000-07:002010-06-07T01:58:30.149-07:00कृषकस्य कथाआसीत् कश्चन कृषक:। अस्मिन् पर्याये यत् सस्यं तस्य क्षेत्रे जातं तस्य गुणवत्तया स: असन्तुष्ट:। तेन चिन्तितं - "प्राय: ग्रामे यानि बीजानि लभ्यन्ते तानि एव न उत्तमगुणानि। तस्मात् सस्यस्य गुणवत्ता अपि न समीचीना" इति। तस्मात् अधुना समीपस्थात् नगरात् उत्कृष्टानि बीजानि आनेतव्यानि इति तेन निश्चितम्। स कृषक: बीजक्रयणार्थं नगरं गन्तुम् इच्छति इति वार्ता कथञ्चित् ग्रामे सर्वत्र प्रसृता। द्वितीयेऽहनि बीजक्रयणार्थं नगरं गन्तुं यावत् तेन स्वस्य वृषभशकटिका सज्जीकृता तावत् तस्य पिता तम् उवाच, "वत्स, तस्मिन्नगरे उत्तमं मधुरं लभ्यते। आबहो: कालात् तत् खादितुम् इच्छा मे मनसि वर्तते। तत् प्रतिनिवर्तनसमये सनिश्चयं त्वया मत्कृते तन्मधुरम् आनेयम्" इति। कृषक "ओम्" इत्युक्त्वा यावत् किञ्चित् अग्रे प्रस्थित: तावत् तस्या मात्रा स उक्त:, "अयि नगरं गमिष्यन् मातृवत्सलस्त्वं मदर्थे काञ्चित् उत्तमां शाटिकाम् अवश्यम् आनेष्यसि ननु" इति। "कस्मान्न" इति उक्त्वा यावत् स अग्रे प्रस्थित: तावत् तस्य अनुजेन स उक्त:, "अग्रज मदर्थे त्वया यूतकम् आनेयम्" इति। तदपि कृषकेण अङ्गीकृतम्। गमनसमये मार्गे तस्य मातृभगिनी मिलिता। तयोक्तम्, "नगरे मम काचित् सम्बन्धिनी निवसति तस्मै मया दीयमानम् इदं किञ्चित् साहित्यम् अविस्मृत्य देयम्’ इति। दास्यामि इत्युक्त्वा अग्रे प्रस्थित: कृषक:। तावदेव ग्रामस्थ: कश्चन ज्येष्ठ: तमुवाच, "भो: इयं मम यष्टि: अधुना अहमिव जीर्णा मद्भारं सोढुमसमर्था इव लक्ष्यते, तत् त्वया नगरं गच्छता मदर्थे सुदृढा नवीना यष्टि: आनेया" इति। ओमित्युक्त्वा प्रस्थित: कृषक:। दिनद्वयानन्तरं यदा स प्रत्यागतस्तदा सोत्साहं सर्वानपि सोऽवदत्। पश्यत भवद्भिरुक्तानि सर्वाणि कार्याणि मया कृतानि। इयं स्थविराय यष्टि:। मातृभगिन्या: साहित्यम् अपि मया नगरवासिन्यै तस्या: सम्बन्धिन्यै अविस्मृत्यैव प्रदत्तम्। अत्रास्ति अनुजाय युतकम्। इयम् अम्बायै शाटिका। इहास्ति ताताय मधुरम्। एवं यदा स सर्वेभ्य: तत्तदभीप्सितानि वस्तूनि ददत् आसीत् तावतैव तेन किमपि लक्षितं यत् तस्य शकटिका रिक्ता जाता। अहो! किमेतत्! अन्यानि सर्वाणि कार्याणि अविस्मृत्य कृतवता मया बीजानि एव विस्मृतानि!!
..... चिन्तयन्तु!संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com0tag:blogger.com,1999:blog-1200073942555360050.post-90215744953052729152010-06-04T23:11:00.000-07:002010-06-04T23:41:14.435-07:00मार्जालबन्धनस्य परंपरा...कश्चन सन्यासी। अतीव विद्वान्। स्वज्ञानेन अन्यानपि लाभान्वितान् कर्तुम् इच्छन् स ग्रामस्थे कस्मिन्नपि मन्दिरे प्रतिदिनं सायं षड्वादनत: सप्तवादनपर्यन्तं प्रबोधनम् आरभत। तस्य ज्ञनेन निरूपणशैल्या च ग्रामजना: प्रभाविता:। शतश: ग्रामस्था: प्रतिदिनं तस्य प्रबोधनं श्रोतुं समागच्छन्ति स्म। तत्र मन्दिरे अटन् कश्चन मार्जाल: प्रबोधनसमये व्यत्ययं जनयति स्म। अत: कदाचित् भाषमाण: स सन्यासी कमपि श्रोतारं प्रार्थयत, "श्रीमन् कृपया एनं मार्जालं रज्ज्वा केनपि स्तम्भेन सह बध्नातु। प्रबोधनानन्तरं पुन: स मोक्तव्य:" इति। स श्रोता तथैव आचरत्। तदारभ्य प्रतिदिनं स श्रोता अस्य कार्यस्य दायित्वमिव वहन् षड्वादने प्रबोधानात् पूर्वं मार्जालं कोणस्थेन केनापि स्तम्भेन बध्नाति स्म प्रबोधनात् परं सप्तवादने च तं मुञ्चति स्म। वर्षानुवषम् अयं क्रम: अन्ववर्तत। कदाचित् स श्रोता ग्रामान्तरं गच्छन् अन्यस्मै एतत् कार्यं समर्पितवान्। तत: सोऽपि बहूनि वर्षाणि कार्यमेतत् ऊढवान्। कदाचित् स सन्यासी दिवंगत:। स्वार्थभावनां विना ग्रामस्थानां कल्याणाय बहूनिवर्षाणि प्रबोधितवत: तस्य मरणम् अतीव शोकास्पदमासीत् सर्वेषां कृते। तस्मिन् दिने अपि स श्रोता सायं षड्वादने मार्जालबन्धनस्य सप्तवादने च मार्जालमोचनस्य क्रमम् अन्वसरत् एव। एतद् एकं कार्यं परलोकं गतेन सन्यासिना नितराम् इष्टम् अत: एतस्य अनुवर्तनेन स नितरां तुष्ट: स्यात् इति धिया तदनन्तरमपि बहूनि वर्षाणि यथावत् एतत् कार्यम् अन्ववर्तत। तदनन्तरं कदाचित् स वृद्ध: मार्जालोऽपि यदा दिवंगत: तदा श्रद्धावद्भि: ग्रामजनै: सायं बन्धनाय विनूतन: मार्जाल: आनीत:। क्रमेण स श्रद्धालु: श्रोता अपि दिवंगत: ततश्च तस्य ज्येष्ठ: पुत्र:श्रद्धया एतत् कार्यम् अन्ववर्तयत। पितु: पुण्यस्मृतौ तस्य धनिक: पुत्र: मार्जालबन्धनाय सुवर्णं स्तम्भं सुवर्णशृङ्खलां च आनयत्। चतुश्शतं वर्षाणि अतीतानि। तस्मिन् मन्दिरे मार्जालबन्धनस्य सा प्रथा अद्यापि श्रद्धया अनुवर्त्यते तत्रत्यै: ग्रामस्थै:!
.... चिन्तयन्तु!संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com0tag:blogger.com,1999:blog-1200073942555360050.post-82253059722373109602010-06-02T05:22:00.000-07:002010-06-02T06:08:44.261-07:00मुग्ध: बाल:कदाचित् कश्चन बाल: अतिप्रात: उदतिष्ठत्। ततश्च गृहात् बहि: अटनार्थं गत:। यदा समीपस्थां नदीं प्राप्नोत् तदा तेन तत्र कटिपर्यन्तं नद्यां निमग्न: सन् सूर्याय अर्घ्यं ददत् कश्चन यति: अवलोकित:। यतिवर्य: प्राणायामादि-विविधा: क्रिया: कुर्वन्नासीत्। न तेन मुग्धेन बालेन किमपि ज्ञातम्। यावत् यतिवरस्य सर्वा: क्रिया: परिसमाप्ता: तावत् स बाल: तूष्णीं नदीतटे एव स्थित:। यतिवर: यदा बहिरागच्छत् तदा बालेन स पृष्ट:, "यतिवर कस्मादयं नासिकाग्रहणपूर्वक: श्वासावरोध: कृत: तत्रभवता" इति। प्राणायामादि-क्रियाणां विधिं महिमानं च अवगन्तुम् अक्षमाय तस्मै मुग्धाय बालाय किं वा वक्तव्यम् इति अजानता सहजमेव तेनोक्तम्, "वत्स अनेन नासिकाग्रहेण ईश्वरस्य दर्शनं भवति" इति। "अस्तु" इत्युक्त्वा बालस्तु तत: निर्गत:। ततस्तस्य मनसि आयातम्, "अहमपि नासिकाग्रहणं कृत्वा ईश्वरदर्शनं प्राप्नुयाम्" इति। तत: सोऽपि द्वितीयेऽहनि प्रातरेव यते: आगमनात् प्रागेव कटिपर्यन्तं नदीजले निमज्ज्य श्वासमवरुद्धवान्। महति क्लेशे अनोभूयमानेऽपि तेन श्वास: नोत्सृष्ट:। तदा वैंकुण्ठस्थ: विष्णु: चिन्ताक्रान्त: जात:। स मनसि अकरोत्, "बालस्य मुग्धत्वात् प्राणायामादिक्रियाणाम् अवगमने असामर्थ्यात् च यतिवर्येण बालाय यदुक्तं तत् स्थाने एव। बालस्यापि यतिवरे कृतविश्वासत्वात् श्वासावरोधद्वारा मदीयदर्शनकाङ्क्षा युज्यते एव। परन्तु अधुना बालस्य पुरतो मया अचिरात् नोपस्थीयते ततो बालेन च प्राणा: त्यज्यन्ते चेत् तत्र अहमेव दोशास्पदं स्याम्" इति।
तत अचिरात् विष्णु: बालस्य पुरत: उपस्थाय, "प्रसन्नोऽहं तव क्रियया। अधुना नासिका मुच्यतां निश्वस्यतां च" इत्युवाच। प्रहृष्ट: बाल: नासिकां मुमोच प्रेमादरसभरहृदय: विष्णुं प्राणमच्च। तदा विष्णुरुवाच, "वरं किञ्चित् वृणीष्व सौम्य" इति। बालोवाच "नास्ति किमपि वाञ्छनीयं भवगन्। भवत आगमनेनैव मे सन्तोष:। यतिवरेण यदुक्तं तत् प्रत्यक्षीकर्तुमेव मया अयं नासिकाग्रह: आचरित:। अधुना प्रतिनिवर्तितुमर्हति भवान्" इति। मन्दं हसन् विष्णु: प्रत्युवाच,"न ममागमनं कदापि व्यर्थं भवितुमर्हति। अत: यदीप्सितं तत्ते प्रदायैव गन्तुमर्हामि। तत् याच्यतां किमपि" इति। "न मे कापि वाञ्छा" इति भूयोभूय: बालेन निवारित: विष्णु: यदा सानुरोधं वरं दातुमैच्छत् तदा बालेनोक्तम्, "भवतु। इदं तावत् दीयताम्। श्वासावरोधम् अनुतिष्ठता मया अस्मिन् पर्याये भगवत: विलम्बेना आगमनात् सुमहत् कष्टम् अनुभूतम्। अग्रिमपर्याये स्पृष्टायामेव नासिकायां तत्रभवता अचिरादेव समुपस्थाय अनुग्रहीतव्योऽहम्" इति। तथास्तु इत्युक्त्वा बालाय आशी: दत्त्वा च अन्तर्हित: भगवान् विष्णु:...
....चिन्तयन्तु!संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com0tag:blogger.com,1999:blog-1200073942555360050.post-73214657044628466862010-05-31T15:30:00.000-07:002010-05-31T16:12:09.815-07:00एवं कदाचित् सञ्जातम्....द्वयो: ग्रामयो: निवसतां जनानां कमपि विषयम् अधिकृत्य कलह: सञ्जात:। तदा एकस्य ग्रामस्य सर्वेऽपि युवका: देण्ड-हल-लवित्रादीनि आयुधानि स्वीकृत्य अन्यं ग्रामम् आक्रान्तुं सिद्धा: समजायन्त। तै: ग्रामं प्रति यात्रा आरब्धा। परन्तु यावत् ते अपरग्रामस्य सीमां प्राप्नुवन् तावत् सूर्य: अस्तं गत:। ग्रामं संरक्षत:दुर्गस्य द्वाराणि पिहितानि। अधुना अन्त: गन्तुम् अशक्यम्। तस्मात् एभि: युवभि: निर्णितम्, " अद्य दुर्गद्वारि एव निद्रास्याम:। प्रात: प्रात: उद्घाटिते एव दुर्गद्वारि आक्रमणं कुरवाम" इति। ततश्च सर्वेऽपि युवान: दुर्गद्वारि एव पङ्क्तिश: प्रसुप्ता:। केनचित् कालेन पङ्क्तौ दुर्गद्वारसमीपे एव प्रसुप्त: प्रथम: व्यचिन्तयत्,"प्रातर्यदा दुर्गद्वाराणि उद्घाट्यन्ते तदा प्रथमे स्थाने स्थितत्वात् शत्रूणां प्रथम: प्रहारस्तु मयैव सोढव्य: भवेत्। युद्धे यदि विजयो लब्धस्तदा तच्छ्रेय: तु सर्वस्यापि भविष्यति। तत् किमर्थं मयैव प्रथम: प्रहार: सोढव्य:?" इति। इत्थं विचिन्त्य स तत उत्थाय पङ्क्तौ अन्तिमस्थानं गत्वा तत्र सुप्त:। तत आदौ यो द्वितीय आसीत् स अधुना पङ्क्तौ प्रथेमे स्थाने अवर्तत। मध्येरात्रं तस्य निद्रा यदा किञ्चित् विक्षिप्ता तदा आत्मानं प्रथमे स्थाने विलोक्य सोऽपि प्रथमवदेव अचिन्तयत्। तत: सोऽपि तत उत्थाय अन्तिमे स्थाने निद्रित:। ततस्तृतीयोऽपि तथैव पृष्ठत: गत्वा प्रसुप्त:। तत: चतुर्थ: तत: पञ्चम:। क्रमेण य: पूर्वं प्रथम: आसीत् स एव पुन: प्रथमं स्थानं प्राम्नोत्। पुनश्च स तत उत्थाय अन्तिमं स्थानं गत:। एवं प्रकरेण आरात्रि स्थानान्तरणं कारं कारं द्वितीये दिने प्रात: युद्धाय प्रस्थित: स युवगण: पुनरपि स्वग्रामं प्राप्नोत्!.....
.....चिन्तयन्तु!संस्कृत-किंकर:http://www.blogger.com/profile/02718020315618680152noreply@blogger.com0