कस्मिंश्चित् ग्रामे कश्चन अतिलुब्धः कृषकः न्यवसत्। तस्य समीपे विशाला उर्वरा क्षेत्रभूमिः आसीत्। तत्र कृषिकार्यं कृत्वा सः बहुलं धनं सम्पादयति स्म। तेन धनेन सः सहजतया एव स्वस्य कुटुम्बं पोषयितुं शक्नोति स्म। ततश्च सः किञ्चित् धनं रक्षितुमपि शक्नोति स्म। तथापि तस्य आयेन सः असन्तुष्टः आसीत्। कदाचित् सः नगरम् अगच्छत्। तत्र नगरश्रेष्ठिनः वैभवं दृष्ट्वा सः अतीव प्रभावितः। तस्य गृहम् अतीव विशालं, समलङ्कृतं च आसीत्। तस्य समीपे महत् पशुधनम् अपि आसीत्। नैके सेवकाः आनिशं तस्य सेवने रताः भवन्ति स्म। दिने वरुत्वारं मिष्टान्नभक्षणं करोति स्म सः।
तं दृष्ट्वा "मयाऽपि श्रेष्ठिना इव धनिकेन भाव्यम्। परन्तु कृषिकार्यात् कुतः इतावत् अर्थोपार्जनम्? तदधुना किं वा कर्तव्यम्?" इति सः चिन्तयति। सः शिवस्य परमः भक्तः आसीत्। अतः तेन चिन्तितम्, "स्वयम् ईश्वरः एव मह्यम् अधुना श्रेष्ठिनः इव धनस्य दानेन अनुग्रहीष्यति" इति। इत्थं विचिन्त्य सः तत्रैव कस्यचिद् वृक्षस्य अधः शिवाराधनं प्रारभत। "यावत् शिवः मम प्रार्थनां न शृणोति तावत् अनशनं कृत्वा तपः आचतिष्यामि" इति निर्णयः तेन कृतह्। तस्मिन् लुब्धत्वं विहाय न कोऽपि अन्यः दिषः आसीत्। बहूनि दिनानि अतीतानि। कृषीवलस्य शरीरम् अनशनेन कृषं अतीव संजातम्। परन्तु तेन व्रतभङ्गः नैव कृतः। कैलासे स्थिता पार्वती तस्य विषये चिन्तिता अभवत्, शिवं च अकथयत्, "कथं भवान् स्वस्यैव भक्तस्य ईदृशीं दुरवस्थां दृष्ट्वापि चिन्तितः। भवतः प्रियस्य भक्तस्य प्रार्थितं कस्मान्न यच्छति तस्मै?" इति। तदा शिवेन उक्तम्, "देवि, तस्मिन्नेव तस्य क्षेमं भविष्यति इति अहं पश्यामि" इति उक्तवान् शिवः। पुनरपि कतिचित् दिनानि अतीतानि। शिवस्तु अधुनापि न प्रसीदति। तस्य दुर्दशां द्रष्टुम् अशक्नुवती पार्वती पुनरपि आह महादेवाय, "देव न अधुना अस्य अवस्थां द्रष्टुं शक्नोमि अहम्। कृपया अनुगृह्य्ताम् अयं भवदीयः भक्तः" इति। महादेवस्तु अवदत्, "देवि स्वशरीरस्य पीडया एव एषः तपः त्यजेत् इति आसीत् मम इच्छा. तैनैव अस्य श्रेयः स्यात्। कथम् एतद्? इति स्वयमेव दृश्यताम्" इति। ततः महादेव भक्ते प्रसन्नः तस्मै वरं दातुम् ऐच्छत्। तदा कृषिकेनोक्तम्, "भगवन्, मह्यम् इतोऽपि भूमिः दीयताम्"इति। सर्वविभवानां स्वामी पुनरपि अपृच्छत्, "कियतीं भूमिम् इच्छसि पुत्रक? स्पष्टं कथय। तावती भूमिः अनुक्षणं त्वदीया भविष्यति" इति। महता आयासेन प्रसन्नात् ईश्वरात् यावद् अधिकं लभ्यते तावदेव वरम् इति चिन्तयन् सः प्रत्युवाच’"भगवन् अहम् अधुना प्रातःकले एव धावनस्य आरम्भं करोमि। सायं सूर्यास्तं यावत् प्रधाव्य अत्रैव प्रत्यागमिष्यामि। तावता यावती भूमिः मया क्राम्येत सा मदीया भवतु" इति। शिवेन तद् अङ्गीकृतम्। कृषकः विना किञ्चिदपि कालक्षेपं धावनम् आरब्धम्। किञ्चिदेव धावित्वा सः श्रान्तः। परन्तु न सः धावनं स्थगितवान्। "अद्य एकं दिनं यदि अहम् अधिकं धावामि तर्हि इतः परम् आजीवनं मया विश्रामः कर्तुं शक्येत" इति विचिन्त्य श्रान्तः अपि सः न अस्थगत्। बुभुक्षितः अपि भोजनाय धावनात् न विरतः। पिपासितः सन्नपि क्षणस्य एकस्य अपि अपव्ययं कर्तुम् अनिच्छन् सः धावन्नेव आसीत्। अधुना मध्याह्नं सञ्जातम्। तेन इष्टस्य भूखण्डस्य परिक्रमा करणीया आसीत्। तदर्थं यस्मात् स्थानात् सः आरभत, तत्रैव पुनः प्राप्तव्यम् अपि आसीत्। तस्माद् अधुना प्रत्यावर्तनस्य कालः इति सः जानाति स्म। "परन्तु सुवर्णावसरः अयं महताप्रयत्नेन लब्धः। न कदापि पुनरायाति। तस्मात् इतोऽपि कञ्चित् कालम् अग्रे धावामि। ततश्च प्रत्यागमनसमये किञ्चित् वेगेन प्रधाव्य सूर्यास्तात् प्राक् आरम्भस्थानं प्राप्स्यामि एव" इति विचिन्त्य सः इतोऽपि अग्रे अधावत्। क्रमेण सूर्यास्तसमयः सन्निहितः। अधुना सूर्यास्तात् प्राक् कथमपि आरम्भस्थानं प्राप्तव्यमेव इति निश्चित्य अतीव श्रान्तः अपि सः वेगेन प्रत्यागमनमार्गेण धावनम् आरब्धवान्। परन्तु अहो दुःखम्! तावति अल्पे समये तावः अन्तरात् आरम्भस्थानं प्रति अगमनम् अशक्यम् एव आसीत्। मनसि एतद् जानन् अपि सः स्वात्मानं कर्षयन् एव धावनवेगं वर्धयितुं प्रयतमानः एव महत्या श्रान्त्या आक्रन्तः आरम्भस्थानात् अतीव दूरे एव पतितः। पञ्चत्वं गतः। चिन्तयन्तु....
Friday, 12 November 2010
Subscribe to:
Post Comments (Atom)
शोभना कथा
ReplyDeleteदीपेश जी यदि भवान् एतां कथां संस्कृतं-भारतस्य जीवनम् जालपृष्ठेपि प्रकाशयति चेत् बहव: जना: लाभं स्वीकुर्यु: ।
मम हार्दिकं निवेदनमस्ति यत् एतादृशी ज्ञानवर्धिनी कथा तत्रापि प्रकाशन्तु कृपया ।।
धन्यवादा:
आनन्दवर्य, तत्र वित्रपटजगतः विषये लेखनीयम् इति किल निश्चितम्?
ReplyDeleteतथैव करिष्यामि।
शीघ्रमेव लेखप्रेषणम् आरप्स्ये।
Wonderfully written. Please do continue more stories like this. I am glad to see this sanskrit blog.
ReplyDeleteSrikanth.
http://www.sangatham.com
धन्यवादाः!
ReplyDeleteभवतः जालपुटं दृष्टम्। दाक्षिणात्यभाषां न जानामि, अतः अधिकं नावगतम्। परन्तु संस्कृतार्थमेव भवान् यतते इति ज्ञातम्। तदर्थम् अभिनन्दनीयः अस्ति भवान्