१. एकं गुरुकुलम्। तत्र एकः महान् गुरुः। एकः बालः तत्र आगच्छति। सः गुरुकुले प्रवेशम् इच्छति। गुरुः वदति, “मम प्रश्नस्य उत्तरं ददातु, तदा एव गुरुकुले प्रवेशं ददामि” इति। बालकः वदति, “अस्तु। पृच्छतु” इति। गुरुः पृच्छति, “देवः कुत्र अस्ति?” इति। बालकः प्रबुद्धः अस्ति। सः गुरुं वदति, “अहम् एतस्य प्रश्नस्य उत्तरं वदामि, किन्तु ततः पूर्वं भवान् वदतु ‘देवः कुत्र नास्ति?’ इति”। गुरुः सन्तुष्टः। बालः गुरुकुले प्रवेशं प्राप्नोति।
२.
एकः गोपालः अस्ति।
तस्य समीपे नैकाः गावः सन्ति। सः प्रतिदिनं प्रातःकाले गोदोहनं करोति। मध्याह्ने
सः दुग्धविक्रयार्थं नगरं गच्छति। सर्वे नागरिकाः दुग्धं स्वीकुर्वन्ति, धनं च
यच्छन्ति। एवं गोपालः सुखेन जीवति। एकदा गोपालस्य मस्तिष्के विचारः आगच्छति, “श्वः
अहं दुग्धे जलं मिश्रयामि, बहुलं धनं च अर्जयामि” इति। द्वितीय-दिने सः दुग्धे जलं
मिश्रयति। तस्य एकं मित्रम् अस्ति - ‘मञ्जुनादः’ इति। मञ्जुनादः वदति, “मित्र!
एतद् उचितं नास्ति” इति। किन्तु गोपालः न शृणोति। सः दुग्धे जलं मिश्रयति। नगरे
विक्रयणं करोति। बहुलं धनम् अर्जयति। अतीव प्रसन्नः भवति। पुनः ग्रामम् आगच्छति।
मार्गे नदी अस्ति। सः चिन्तयति, “अहं प्रथमं स्नानं करोमि, ततः गृहं गच्छामि” इति।
सः धनं तटे स्थापयति, स्नानार्थं च गच्छति। तटे वानराः आगच्छन्ति। सर्वं धनं
विकिरन्ति। किञ्चित् धनं तु नद्याम् अपि पतति। गोपालः बहिः आगच्छति। भूमौ पतितं
धनम् एकत्रीकरोति। अत्यन्तं खिन्नः भवति। गृह-गमन-मार्गे मञ्जुनादः मिलति।
मञ्जुनादः पृच्छति, “मित्र, भवान् किमर्थं खिन्नः?” इति। गोपालः सर्वं वृत्तान्तं
श्रावयति। मञ्जुनादः हसति, वदति च, “भोः मित्र, दुःखितः मा भवतु। जलस्य धनं जलं
गतं, दुग्धस्य धनं हस्ते अस्ति” इति।
३.
धौम्यः नाम
मुनिवरः। तस्य आश्रमे नैके शिष्याः पठितवन्तः। कदाचित् अत्यधिका वृष्टिः जाता। सर्वत्र
जलसञ्चयः जातः। धौम्यः तस्य शिष्यम् आरुणिं सूचयति, “भोः आरुणे, कृपया क्षेत्रं
गच्छतु। तत्र जलं न प्रविशेत् तथा करोतु” इति। आरुणिः शीघ्रं क्षेत्रं गतवान्। जलस्य
अवरोधाय मृत्तिकायाः पालिं कृतवान्। किन्तु जलप्रवाहः न अवरुद्धः। सः चिन्तितवान्,
“अस्तु। जलप्रवाहस्य रोधनाय अहं स्वयमेव अत्र शयनं करोमि” इति। सः तथैव कृतवान्। रात्रिः
जाता। आरुणिः आश्रमं न आगतवान्। चिन्तितः धौम्यः ऋषिः एकं शिष्यं पृष्टवान्, “भोः!
आरुणिः कुत्र अस्ति?” इति। शिष्यः उक्तवान्, “अहं न जानामि” इति। धौम्यः स्वयमेव
क्षेत्रं गतवान्। ‘आचार्यस्य आज्ञापालनाय आरुणिः स्व-शरीरेण जलरोधनम् करोति’ इति
धौम्यः दृष्टवान्। अतीव प्रसन्नः अभवत्।
४.
एकः भिक्षुकः आसीत्। एकदा भिक्षायां सः
गोधूमपिष्टं प्राप्तवान्। सः पिष्ट-पात्रं स्व-गृहे नागदन्ते लम्बितवान्। तस्य अधः
एव शयनं कृतवान्, चिन्तितवान् च, “यदि देशे दुष्कालः भविष्यति तर्हि एतस्य
पिष्टस्य मूल्यं शतं रूप्यकाणि भविष्यति। तदा अहम् एतस्य पिष्टस्य विक्रयणं
करिष्यामि। ततः प्राप्तेन धनेन अहम् कुक्कुट-द्वयं क्रेष्यामि। ततः कालक्रमेण
अनेके कुक्कुटाः भविष्यन्ति। तेषामपि विक्रयणं करिष्यामि। ततः प्राप्तेन धनेन अहं
अजद्वयं क्रेष्यामि। ततः कालक्रमेण नैकाः अजाः भविष्यन्ति। तासामपि विक्रयणं
करिष्यामि। ततः प्राप्तेन धनेन अहं गो-द्वयं क्रेष्यामि। ततः कालक्रमेण अनेकाः
गावः भविष्यन्ति। तासामपि विक्रयणं करिष्यामि। ततः प्राप्तेन धनेन अहम् अश्वद्वयं
क्रेष्यामि। ततः कालक्रमेण नैके अश्वाः भविष्यन्ति। मम एका अश्वशाला भविष्यति। एकं
बृहद् गृहं भविष्यति। एका रूपवती पत्नी भविष्यति। एकं पुत्रः भविष्यति। कदाचित्
अहं कार्ये व्यस्तः भविष्यामि। मम पुत्रः कार्ये विघ्नम् उत्पादयिष्यति। तस्य माता
पुत्रे अवधानं न करोति, अतः अहं कोपेन पादेन तां ताडयिष्यामि” इति चिन्तयन् सः
नागदन्ते लम्बितं गोधूम-पिष्ट-पात्रम् एव पादेन प्रहरति। पात्रं भग्नं भवति।
पिष्टं भूमौ विकीर्णं भवति। संस्कृते उक्तिः अपि अस्ति, “उत्पद्यन्ते विलीयन्ते
दरिद्राणां मनोरथाः” इति।
५.
नरेन्द्रनाथ-दत्तः
त्रिशष्ट्युत्तर-अष्टादशशततमे वर्षे जन्म प्राप्तवान्। विश्वनाथ-दत्तः तस्य पिता।
भुवनेश्वरी देवी तस्य माता। युवावस्थायामेव सः काषाय-वस्त्र-धारी सन्यासी अभवत्।
एकदा सः एकाकी वनमार्गेण गच्छति स्म। तत्र एकस्मिन् वृक्षे वानराः आसन्। ते
विवेकानन्दस्य अनुसरणम् आरब्धवन्तः। विवेकानन्दः भीतः। भीत्या यदा सः स्वस्य वेगं
वर्धितवान् तदा वानराः अपि वेगेन तम् अनुसृतवन्तः। तद् दृष्ट्वा सः इतोऽपि भीतः। सः
धावनम् आरब्धवान्