आसीत् कश्चन सार्थवाहः। तस्य समीपे शतम् उष्ट्राः आसन्। तेषां परिपालनाय तेन कश्चन पुरुषः नियुक्तः आसीत्। कदाचित् सः पुरुषः अस्वस्थः समजायत। तस्मात् सार्थवाहेन तस्मै कतिचनमासात्मकः विरामः प्रदत्तः, तस्य स्थाने च अपरः कश्चित् पुरुषः नियुक्तः। प्रथमायां रात्रौ पुरुषः सार्थवाहस्य मण्डपम् आगत्य अपृच्छत्, "स्वामिन्, मया कदा निद्रातव्यम्?" इति। स्वामिना उक्तम्, "यदा सर्वे उष्ट्राः उपविशन्ति तदा त्वया निद्रातव्यम्" इति। तेन पुरुषेण आरात्रि प्रतीक्षितम्। यावत् केचन उष्ट्राः उपविशन्ति स्म, तावत् इतरे उत्तिष्ठन्ति स्म। सर्वे उष्ट्राः तु न कदापि उपविष्टाः। द्वितीयस्यां रात्रौ पुरुषः पुनरपि स्वामिनः समीपम् अगच्छत्, अपृच्छत् च, "स्वामिन्, अद्य कदा निद्रातव्यं मया?" इति। पुनरपि तदेव उत्तरं प्राप्तं तेन, "यदा सर्वे उष्ट्राः उपविशन्ति तदा निद्रतव्यम्" इति। द्वितीयस्यां रात्रौ अपि तेन पुरुषेण सर्वेषाम् उष्ट्राणाम् उपवेशनस्य प्रतीक्षा कृता। परन्तु तथा नाभवत्। द्वितीयस्यां रात्रौ अपि तेन निद्रा न प्राप्ता। तृतीयरात्रिपर्यन्तं सः अतीव श्रान्तः आसीत्। पुनरपि स्वामिनं गत्वा पृच्छति, "स्वामिन्! मया कदा स्वपनीयम्?" इति। स्वामिना ईषदिव क्रोधेन उक्तम्, "किमर्थं त्वं भूयो भूयः तदेव पृच्छसि? उक्तं किल मया सर्वेषाम् उष्ट्राणाम् उपवेशनानन्तरं त्वं स्वपितुमर्हसि इति?" इति। पुरुषेण मनसि चिन्तितम्, "अद्य रात्रौ अपि यदि निद्रा न प्राप्यते तर्हि अहं जीवितुमेव न शक्ष्यामि" इति। पुनरपि तेन सर्वेषाम् उश्ट्राणाम् उपवेशनस्य प्रतीक्षा आरब्धा। अद्य सुरात्री स्यात् कदाचित्। मध्यरात्रौ तेन दृष्टं यत् क्रमशः सर्वे उष्ट्राः उपविशन्तः सन्ति। दश उष्ट्राः उपविष्टाः। ततः विंशतिः। ततस्त्रिंशत्। ततश्चत्वारिंशत्। एवं क्रमेण अशीतिः, ततो नवतिः, एकनवतिः , द्विनवतिः, त्रिनवतिः..... नवनवतिः... अधुना एकः एव उष्ट्रः जागर्ति स्म। सः पुरुषः मनसि ईश्वरं प्रार्थयमानः आसीत्। अर्धहोरा अतीता। सः एकः एव उष्ट्रः तिष्ठति। सर्वेऽपि अन्ये उपविष्टाः। अन्ततः पुरुषस्य धैर्यं विनष्टम्। सः तस्य उष्ट्रस्य गलस्थाः रज्जुम् आकृष्य यावत् तं बलात् उपवेशयितुं प्रायतत तावत् तस्य ग्रीवास्था घण्टा अनदत्। तं नादं श्रुत्वा सर्वेऽपि उष्ट्राः उत्थिताः। वराकः सः तस्यां रात्रावपि नालभत निद्राम्।
एवम् आदिनं कार्यं कुर्वता, रात्रौ च निद्राम् अप्राप्नुवता तेन जीवितुं नैव शक्यते इति तेन ज्ञातम्। तावति एव तस्य मनसि विचारः आगतः, "पूर्वतनः उष्ट्रपालः किं करोति स्म इति पृच्छानि" इति। सपदि सः तस्य गृहः गतः। तेन तस्मै स्वीया समस्या निवेदिता। पूर्वतनः उष्ट्रपालः तत् श्रुत्वा ईषदिव विहस्य तं पुरुषम् अवदत्,"भद्रमुख, सर्वे उष्ट्राः न कदापि युगपदेव उपवेक्ष्यन्ति" इति। ततः पुरुषेण पृष्टम्,"एवं स्थिते मया निद्रा कदा विधेया?" इति। तदा पूर्वतनः उष्ट्रपालः अवदत्, "त्वया उष्ट्राणाम् उपवेशनस्य प्रतीक्षा न कर्तव्या, त्वया तस्य स्वामिनः स्वपनस्य प्रतीक्षा कर्तव्या। स्वमिनः स्वपनानन्तरं त्वयापि स्वपनीयम्" इति। तदनन्तरं सः पुरुषः तथैव आचरत्। सुखेन च उष्ट्रपरिपालने प्रावर्तत च।
चिन्तयन्तु....
(हरिभाई-कोठरी-महोदयस्य प्रवचनेभ्यः उद्धृता इयं कथा)
Monday, 17 January 2011
पलाण्डवः अपि खादिताः कशाघाताः चापि सोढाः
एवमुच्यते यत् राज्ञः अकबरस्य श्यालः आसीत् कश्चन। तेन कश्चन अपराधः कृतः। सैनिकैः सः राज्ञः पुरतः आनीतः। अकबरः तस्य अपराधं ज्ञात्वा अन्यसदृशमेव दण्डं दातुम् ऐच्छत्। परन्तु तथा करणेन राज्ञी रुष्टा स्यात् इति भीतिरासीत् तस्य मनसि। किं करणीयम् इति सः वीरबलम् अपृच्छत्। वीरबलेन उक्तम्, "राजन्! चिन्तां मा कुरु। श्वः यदा तव श्यालः पुनरपि न्यायार्थं राजसभाम् आनेष्यते, तदा केवलं तस्य अपराधं सम्यक् जानातु भवान्। येन अपराधिनः सम्यक् शिक्षा स्यात्, राज्ञी च रुष्टा न स्यात् तथा दण्डेन अहं योजयामि तम्" इति।
अपरस्मिन् दिने सभायां राज्ञी अपि उपस्थिता आसीत्। राज्ञा तथैव अनुष्ठितम्। स्वस्य श्यालस्य अपराधनिश्चित्यनन्तरं "वीरबलः तस्मै योग्यं दण्डम् उद्घोषयिष्यति" इति उक्त्वा राजा विरतः। वीरबलेन सर्वं श्रुत्वा उक्तम्, "भद्र, तव अपराधः न सामान्यः। त्वं कठोरं दण्डम् अर्हसि परन्तु त्वं महाराजस्य श्यालः अतः तुभ्यं नातिकठोरः दण्डः प्रदास्यते। त्वया शतं पलाण्डवः वा खादनीयाः शतकशाघाताः वा सोढव्याः। अनयोः एकं दण्डं त्वमेव तुभ्यं वृणीष्व" इति। अपराधिना चिन्तितं पलाण्डुखादनं न तावते क्लेशाय। तस्मात् तेन तदेव वृतम्। परन्तु यावत् तेन दश पलाण्डवः खादिताः तावत् तेन ज्ञातं यत् इतः परम् इतोऽपि पलाण्डुखादनम् अशक्यम् एव। तस्य नेत्रयोः अश्रूणि वहन्ति स्म। कशाघातसहनमेव एतस्य अपेक्षया वरतरम् इति सः ज्ञातवान्। तेन सपदि पलाण्डुखादनं स्थगितम्। ततः तस्य इच्छानुगुणमेव तस्मिन् कशाघाताः विहिताः। परन्तु दशाधिकान् कशाघातान् प्राप्यैव सः भूमौ पतितः। ईदृशाः कठोराः आघाताः तेन इतोऽपि सोढुं नैव शक्याः आसन्। पलाण्डु खादने एव पुनः यत्नः विधेयः इति विचिन्त्य तेन पुनरपि दश पलाण्डवः भुक्ताः। पुनरपि तद् असहमानः सः कशाघातप्राप्तये सज्जः। एवम् अन्ततो गत्वा तेन शतं पलाण्डवः अपि खादिताः, शतं कशाघाताः चापि सोढाः।
चिन्तयन्तु....
(मम स्वर्गीयेन मित्रेण हरीश-तन्ना-महाभागेन मह्यम् इयं कथा उक्ता)

Wednesday, 29 December 2010
चायार्थः विरोधः
अस्ति कश्चन ग्रामः। तत्रत्याः ज्येष्ठाः प्रतिमासं सकृत् एकत्र समिल्य ग्रामसम्बन्धिविषयाणां चर्चां कुर्वन्ति| स्वस्य उद्योगादिकं समाप्य रात्रिभोजनं कृत्वा रात्रौ नववादने सर्वे एकत्रिताः भवन्ति। अस्याः गोष्ठ्याः आरम्भसमयस्तु निश्चितः परन्तु न समाप्तिसमयः। ग्रामसम्बद्धाः समस्याः यथा अनन्ताः तथैव इयं गोष्ठी अपि। सर्वेऽपि इमे ग्रामहिताय चिन्तयन्ति। किन्तु सर्वेषां चिन्तनस्य दिक् भिन्ना। यम् उपक्रमम् एकः ग्रामस्य उपकाराय मन्यते अपरः तमेव ग्रामस्य महते अपकाराय मन्यते। इतरः भिन्नमेव उपक्र्मं चिन्तयति। तेनैव गिष्ठ्यां सर्वदा महान् कलहः भवति। तत्र गोष्ठीकक्षात् बहिरेव कश्चन चायविक्रेता आरात्रि तिष्ठति। यः कलहात् त्रस्तः भवति सः बहिरागत्य तस्मात् चायं स्वीकरोति। किञ्चित् स्फूर्तिं प्राप्य पुनः गोष्ठीकक्षं प्रविश्य अन्यैः सह चर्चाम् अनुवर्तयते। एवं प्रतिगोष्ठि तस्य चायस्य महान् विक्रयः भवति।
एकस्यां रात्रौ प्रतिवारमिव नववादने गोष्ठी आरब्धा। चायविक्रेतापि प्रतिवारमिव गोष्ठीकक्षात् बहिः स्थितः। परन्तु अहो आश्चर्यम्! अस्मिन् अवसरे एकैकशः सर्वेऽपि चर्चाविषयाः झटिति एव सर्वमान्यतां प्राप्नुवन्ति। न कोऽपि कस्यापि विरोधं करोति। गोष्ठिकक्षे कलहस्य वातावरणमेव नास्ति। सर्वेषां मुखानि स्मयमानानि सन्ति। सर्वमेतद् दृष्ट्वा बहिः चायविक्रेता स्थितः चिन्तातुरः समजायत। यदि गोष्ठी अचिरात् समाप्ता स्यात् तर्हि को वा मम चायं पास्यति? इति विचिन्त्य सः स्वयमेव उष्णीषं परिधाय ज्येष्ठानां तेषां सदसि सम्मिलितः। यावत् चर्चा प्रचलति स्म, तावत् मध्ये एव हस्तम् उत्तोल्य स प्रोच्चैः अवदत्, "न हि , मम विरोधः अस्ति!" इति। सहसैव गोष्ठीकक्षे सर्वत्र शान्तिः प्रसृता। सर्वे निश्शब्दाः सन्तः तमेव पश्यन्तः आसन्। तावति एव केनापि विचक्षणेन सदस्येन सः चायविक्रेता अभिज्ञातः। तस्य विरोधस्य वास्तविकं कारणं विज्ञाय किञ्चिदिव विहस्य सः तमवदत्, "भद्र मा विरोधं कुरु, इतः गमनसमये सर्वेऽपि सदस्याः त्वत्तः चायं निश्चयेन क्रेष्यन्ति" इति।

Tuesday, 23 November 2010
तत्र क: संशयः?
कदाचित् कश्चन पुरुषः कञ्चित् विशिष्टं शुकम् आदाय कस्यचन महाराजस्य सभायाम् उपस्थितः। रूपतः सुन्दरः स शुकः महाराजाय नितराम् अरोचत। शुकं क्रेतुकामः महाराजः तं पुरुषम् अपृच्छत्, "भद्र! किम् अस्य शुकस्य मूल्यम्?" इति। पुरुषोऽवदत्, "सहस्रं सुवर्णनाणकानि" इति। चकितः महाराजः पुनरपि अब्रवीत्, "कस्मात् एतावत् मूल्यम् अस्य सामान्यस्य शिकस्य?" इति। तदा पुरुषेण उक्तम्, "महाराज, नायं सामान्यः शुकः। अयं तु पृष्टानां प्रश्नानाम् उत्तराणि वक्तुं समर्थः" इति। महराज उवाच, "नाहं विश्वसिमि" इति। पुरुष आह, "तर्हि स्वयं शुकः एव पृच्छ्यताम्" इति। महाराजः शुकम् अपृच्छत्, "किं त्वं प्रश्नानाम् उत्तराणि वक्तुं समर्थः?" इति। झटिति शुकेनोक्तम्, "तत्र कः संशयः?" इति। महाराजः प्रभावितः। स पुनरपृच्छत्, "किं तव मूल्यं सहस्र-सुवर्ण-नाणक-मितं विद्यते?" इति। शुकः प्राह, "तत्र कः संशयः?" इति। महाराजः शुकस्य प्रतिभां दृष्ट्वा विस्मितः। अनुक्षणं तेन राजकोषात् सहस्रं सुवर्णनानि प्रदाय स शुकः क्रीतः। स तं शुकं प्रासादस्य द्वारे एव अस्थापयत्। ये अतिथयः महाराजस्य दर्शनार्थम् आगच्छन्ति स्म तान् सः पृष्टानां प्रश्ननाम् उत्तरदाने समर्थम् एतं शुकम् अपि सोत्साहं दर्शयति स्म। सर्वेऽपि तं शुकं दृष्ट्वा विस्मिताः सन्तः तमेव शुकं पृच्छन्ति स्म, "भोः किं तव मूल्यं सहस्र-सुवर्ण-नाणकमितम्?" इति। सोऽपि अनुपदम् उत्तरयति स्म,"तत्र कः संशयः?" इति। तद् श्रुत्वा चकितचकिताः अतिथयः तस्य क्रेतारं गुणज्ञं राजानं बहुशः प्रशंसन्ति स्म। तस्य महाराजस्य कश्चित् चतुरः मन्त्री इमां वार्तां ज्ञातवान्। कस्यचित् शुकस्य क्रयणे महाराजानुमत्या राजकोषात् इयतः धनस्य व्ययः नारोचत तस्मै। सोऽपि राजदर्शनव्याजेन शुकदर्शनाय राजप्रासादं गतः। राजा तन्मुखादपि शुकक्रयणविषये प्रशंसाम् उत्प्रेक्षमाणः तस्मै शुकम् अदर्शयत्। परं नायं मन्त्री अन्यसदृशः राजप्रशंसया राजानुकूल्यमात्रस्य सम्पादने तत्परः। अयं तु वस्तुतः महाराज्यस्य हितं कामयते स्म। सोऽपि अपृच्छत् शुकम्, "अये किं त्वं पृष्टानां सर्वेषां प्रश्नानाम् उत्तराणि प्रदातुं समर्थः?" इति। शुक उवाच, "तत्र कः संशयः?" इति। ततश्च पुनरपि मन्त्री पप्रच्छ, "किं सहस्र-सुवर्ण-नाणक-मितं तव मूल्यम् उचितम्?" इति। पुनरपि शुक उवाच,"तत्र कः संशयः?" इति। मन्त्रिणा एतावता एव सर्वम् अभिज्ञातम्। झटिति मन्त्रिणा पुनरपि स शुकः पृष्टः, "किं सहस्रं सुवर्णनाणकैः येन त्वं क्रीतः स राजा मूर्खः नास्ति?" इति। शुकेन पुनश्च तदेव उत्तरम् उक्तम्, "तत्र कः संशयः?" इति। मूर्खः स महाराजः अतीव कुपितः तं शुकं व्यापादितवान्।
चिन्तयन्तु...
चिन्तयन्तु...
Friday, 12 November 2010
दुष्पूरः कामः
कस्मिंश्चित् ग्रामे कश्चन अतिलुब्धः कृषकः न्यवसत्। तस्य समीपे विशाला उर्वरा क्षेत्रभूमिः आसीत्। तत्र कृषिकार्यं कृत्वा सः बहुलं धनं सम्पादयति स्म। तेन धनेन सः सहजतया एव स्वस्य कुटुम्बं पोषयितुं शक्नोति स्म। ततश्च सः किञ्चित् धनं रक्षितुमपि शक्नोति स्म। तथापि तस्य आयेन सः असन्तुष्टः आसीत्। कदाचित् सः नगरम् अगच्छत्। तत्र नगरश्रेष्ठिनः वैभवं दृष्ट्वा सः अतीव प्रभावितः। तस्य गृहम् अतीव विशालं, समलङ्कृतं च आसीत्। तस्य समीपे महत् पशुधनम् अपि आसीत्। नैके सेवकाः आनिशं तस्य सेवने रताः भवन्ति स्म। दिने वरुत्वारं मिष्टान्नभक्षणं करोति स्म सः।
तं दृष्ट्वा "मयाऽपि श्रेष्ठिना इव धनिकेन भाव्यम्। परन्तु कृषिकार्यात् कुतः इतावत् अर्थोपार्जनम्? तदधुना किं वा कर्तव्यम्?" इति सः चिन्तयति। सः शिवस्य परमः भक्तः आसीत्। अतः तेन चिन्तितम्, "स्वयम् ईश्वरः एव मह्यम् अधुना श्रेष्ठिनः इव धनस्य दानेन अनुग्रहीष्यति" इति। इत्थं विचिन्त्य सः तत्रैव कस्यचिद् वृक्षस्य अधः शिवाराधनं प्रारभत। "यावत् शिवः मम प्रार्थनां न शृणोति तावत् अनशनं कृत्वा तपः आचतिष्यामि" इति निर्णयः तेन कृतह्। तस्मिन् लुब्धत्वं विहाय न कोऽपि अन्यः दिषः आसीत्। बहूनि दिनानि अतीतानि। कृषीवलस्य शरीरम् अनशनेन कृषं अतीव संजातम्। परन्तु तेन व्रतभङ्गः नैव कृतः। कैलासे स्थिता पार्वती तस्य विषये चिन्तिता अभवत्, शिवं च अकथयत्, "कथं भवान् स्वस्यैव भक्तस्य ईदृशीं दुरवस्थां दृष्ट्वापि चिन्तितः। भवतः प्रियस्य भक्तस्य प्रार्थितं कस्मान्न यच्छति तस्मै?" इति। तदा शिवेन उक्तम्, "देवि, तस्मिन्नेव तस्य क्षेमं भविष्यति इति अहं पश्यामि" इति उक्तवान् शिवः। पुनरपि कतिचित् दिनानि अतीतानि। शिवस्तु अधुनापि न प्रसीदति। तस्य दुर्दशां द्रष्टुम् अशक्नुवती पार्वती पुनरपि आह महादेवाय, "देव न अधुना अस्य अवस्थां द्रष्टुं शक्नोमि अहम्। कृपया अनुगृह्य्ताम् अयं भवदीयः भक्तः" इति। महादेवस्तु अवदत्, "देवि स्वशरीरस्य पीडया एव एषः तपः त्यजेत् इति आसीत् मम इच्छा. तैनैव अस्य श्रेयः स्यात्। कथम् एतद्? इति स्वयमेव दृश्यताम्" इति। ततः महादेव भक्ते प्रसन्नः तस्मै वरं दातुम् ऐच्छत्। तदा कृषिकेनोक्तम्, "भगवन्, मह्यम् इतोऽपि भूमिः दीयताम्"इति। सर्वविभवानां स्वामी पुनरपि अपृच्छत्, "कियतीं भूमिम् इच्छसि पुत्रक? स्पष्टं कथय। तावती भूमिः अनुक्षणं त्वदीया भविष्यति" इति। महता आयासेन प्रसन्नात् ईश्वरात् यावद् अधिकं लभ्यते तावदेव वरम् इति चिन्तयन् सः प्रत्युवाच’"भगवन् अहम् अधुना प्रातःकले एव धावनस्य आरम्भं करोमि। सायं सूर्यास्तं यावत् प्रधाव्य अत्रैव प्रत्यागमिष्यामि। तावता यावती भूमिः मया क्राम्येत सा मदीया भवतु" इति। शिवेन तद् अङ्गीकृतम्। कृषकः विना किञ्चिदपि कालक्षेपं धावनम् आरब्धम्। किञ्चिदेव धावित्वा सः श्रान्तः। परन्तु न सः धावनं स्थगितवान्। "अद्य एकं दिनं यदि अहम् अधिकं धावामि तर्हि इतः परम् आजीवनं मया विश्रामः कर्तुं शक्येत" इति विचिन्त्य श्रान्तः अपि सः न अस्थगत्। बुभुक्षितः अपि भोजनाय धावनात् न विरतः। पिपासितः सन्नपि क्षणस्य एकस्य अपि अपव्ययं कर्तुम् अनिच्छन् सः धावन्नेव आसीत्। अधुना मध्याह्नं सञ्जातम्। तेन इष्टस्य भूखण्डस्य परिक्रमा करणीया आसीत्। तदर्थं यस्मात् स्थानात् सः आरभत, तत्रैव पुनः प्राप्तव्यम् अपि आसीत्। तस्माद् अधुना प्रत्यावर्तनस्य कालः इति सः जानाति स्म। "परन्तु सुवर्णावसरः अयं महताप्रयत्नेन लब्धः। न कदापि पुनरायाति। तस्मात् इतोऽपि कञ्चित् कालम् अग्रे धावामि। ततश्च प्रत्यागमनसमये किञ्चित् वेगेन प्रधाव्य सूर्यास्तात् प्राक् आरम्भस्थानं प्राप्स्यामि एव" इति विचिन्त्य सः इतोऽपि अग्रे अधावत्। क्रमेण सूर्यास्तसमयः सन्निहितः। अधुना सूर्यास्तात् प्राक् कथमपि आरम्भस्थानं प्राप्तव्यमेव इति निश्चित्य अतीव श्रान्तः अपि सः वेगेन प्रत्यागमनमार्गेण धावनम् आरब्धवान्। परन्तु अहो दुःखम्! तावति अल्पे समये तावः अन्तरात् आरम्भस्थानं प्रति अगमनम् अशक्यम् एव आसीत्। मनसि एतद् जानन् अपि सः स्वात्मानं कर्षयन् एव धावनवेगं वर्धयितुं प्रयतमानः एव महत्या श्रान्त्या आक्रन्तः आरम्भस्थानात् अतीव दूरे एव पतितः। पञ्चत्वं गतः। चिन्तयन्तु....

Monday, 12 July 2010
योगक्षेमं वहाम्यहम्
पुरा कोऽपि संस्कृतपण्डित: कस्यचिद्राज्ञ: सभां गत:। राज्ञ: पुरत: स्वपाण्डित्यप्रदर्शनेन विपुलं धनं कीर्ति: च सम्पादयिष्यते तेन इति तेन चिन्तितम्। राज्ञा पण्डितवर: प्रणत: पृष्ट: च, "पण्डितवर, कस्मिन् विषये तत्रभवत: पाण्डित्यम्?" इति। पण्डतेनोक्तम् , " अहं तु सर्वशास्त्रविशारद: परन्तु श्रीमद्भगवद्गीतासु मम विशेषानुराग:" इति। राज्ञोक्तं - " तथा चेत् गीतास्थ: श्लोकोऽयं व्याख्यायताम् - अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥" इति। श्लोकोऽयम् अतीव प्रसिद्ध: विद्यते। भगवता श्रीकृष्णेन अत्र उक्तम् यत् - ये केचन जना: अनन्यशरणा: सन्त: माम् उपासते, मम आराधनं कुर्वन्ति, नित्यम् अभियुक्तानां तेषां योगक्षेमं, तन्नाम सर्वासाम् आवश्यक्तानां पूर्तिं जीवननिर्वहणं च अहं वहामि’ इति। स विद्वान् अनुक्षणं तं श्लोकम् अधिकृत्य होरां यावत् भाषणम् अकरोत्। बहुभि: उदाहरणै: श्रुतिस्मृतिवचनै: च श्लोकस्य अस्य अर्थं सुष्ठु विवृतवान् स:। परन्तु भाषणान्ते राज्ञो मुखे तथा सन्तोष: न दृष्ट: तेन। राज्ञोक्तं, "विद्वद्वर तत्रभवतो भाषणम् अतीव विद्वत्तापूर्णम् इत्यत्र नास्ति शङ्कालेश:, परन्तु इतोऽपि किञ्चित् अस्पष्टता अस्ति तत्र इति मम हृदयं वदति" इति। पण्डितवर: न मनागपि खिन्न:। तेनोक्तम्, "भवतु राजन्, अहं पुनरपि गभीरतरम् अध्ययनं कृत्वा इमम् एव श्लोकम् अधिकृत्य श्व: पुनरपि व्याख्यास्यामि" इति। द्वितीयेऽहनि पुनरपि होरां यावत् विनूतनानि उदाहरणानि प्रस्तूय तेन अयमेव श्लोक: विवृत:। तथापि राज्ञो मुखे सन्तोष: नासीत्। "इतोऽपि तत्रभवत: भाषणे काचित् न्यूनता प्रतिभाति मे इति" राज्ञा उक्तम्। न पण्डितेन अपि धैर्यं त्यक्तम्। तृतीयेऽहनि पुनरपि तमेव श्लोकम् अधिकृत्य स व्याख्यातवान्। परन्तु इतोऽपि राज्ञ: सन्तोष: नासीत्। एवम् एव दशदिनानि यावत् सततं प्रतिदिनं होरां यावत् नवनवै: उदाहरणै: श्रुतिस्मृतिवाक्यै: च स विद्वान् प्रत्यपासयत् परन्तु राज्ञ: इतोऽपि सन्तोष: नास्ति। अधुना पण्डित: किञ्चिदिव हताशताम् अन्वभवत्। स मनसि अकरोत्, "श्लोकस्यास्य विषये उपलब्धा: सर्वा: टीका: मया अधीता:, तत्सम्बद्धं सर्वं साहित्यं चावलोकितम्। सर्वमपि तत्र प्रास्तवम्। इत: परं किं मया राज्ञ: सन्तोषार्थं कर्तव्यम्?" इति। द्वितीयदिने प्रात: पुनरपि राज्ञ: सभा गन्तव्या आसीत्। पुनरपि किमपि विनूतनं तस्यैव श्लोकस्य विषये वक्तव्यम् आसीत्। किं वा वदानि अद्य? इति सम्भ्रान्त: स: सहसा सर्वा: टीका: अत्यजत्। श्रीकृष्णस्य प्रतिमामवलोकयन् मूलम् एव श्लोकं भूय: भूय: पठन्नासीत् स:। "अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥" इति। सहसैव तस्य मनसि प्रकाश: जात:। स मनसि अकरोत् " अये! अत्र तु भगवता उक्तं यत् योगक्षेमम् अहं वहामि इति, तत् कस्मात् अहं मम योगक्षेमस्य चिन्तां कुर्वन् तस्य राजस्य सन्तोषार्थं प्रयतमान: अस्मि?" इति। तेनेदम् अवगतं यत्, अनन्य: सन् श्रीकृष्णस्य शरणं गतस्य तस्य कृते राज्ञ: अनुग्रहस्य कापि आवश्यकता एव न विद्यते। तस्मिन् दिने स राजसभामेव न गत:। सभायां तं प्रतीक्षमाण: राजा एव स्वयं तस्य आगमनस्य वेलाया: अतिक्रमणाद् अनन्तरं तेन मेलनार्थं तस्य गृहमायात:। तेनोक्तं, "भो: पण्डितवर, कस्मादद्य तत्रभवान् सभामेव नागत:?" इति। पण्डितेन उक्तं, "भगवता श्रीकृष्णेन एव मम योगक्षेमस्य निर्वहणस्य दायित्वं स्वीकृतम् अस्ति इति वस्तुत: अहम् अद्य अवगतवान्। अधुना मम भवत: कापि अपेक्षा एव नास्ति। तस्मात् अद्य अहं राजसभां नैव आगच्छम् यदि भवान् मत्त: ज्ञानं प्राप्तुम् इच्छति तर्हि सुखम् आगच्छतु मम गृहम्। अतीव प्रेम्ण भवते ज्ञानं प्रदास्यामि" इति। मन्दं हसन् राजा तदा अवदत्,"पण्डितवर, अद्य भवता अस्य श्लोकस्य वास्तविक: अर्थ: विज्ञात:" इति।
चिन्तयतु....
चिन्तयतु....
Tuesday, 15 June 2010
तत: किं? तत: किम्?...
स्वामी विवेकानन्द: स्वस्य देशभक्तिपरकै: भाषणै: चरितेन च नैकान् भारतीयान् प्रैरयत् इति सुविदितम् एव सर्वेषाम्।
अथ कदाचित् स्वामी विवेकानन्द: विदेशयात्रार्थं महानौकया प्रवासं करोति स्म। तस्यामेव नौकायां कश्चन अन्य: भारतीय: युवक: अपि आसीत्। भारतीया: यून: चिन्तनशीला: भवेयु: इति सर्वदा विवेकानन्देन अभिलषितम् आसीत्। स: तस्य युवकस्य समेपं गत:। परस्परपरिचयवेलायां तेन ज्ञातं यत् स: प्रगतं शिक्षणं प्राप्तुं विदेशं प्रति प्रस्थित: अस्ति। तेन स: युवक: पृष्ट:, "कस्मात् प्रगतं शिक्षणं प्राप्तुम् इच्छति भवान्?" इति। युवकेन उत्तरितम्, "प्रगतं शिक्षणं प्राप्य अहं विपुलं धनं सम्पादयितुं शक्ष्यामि" इति। "साधु! तत: किं करिष्यति भवान्?" इति पुन: स्वामिना पृष्टम्। स्वप्नलोकम् इव, स्वेन इष्टं भविष्यलोकम् इव प्रविष्टवान् स युवक: उवाच, "तत: कामपि सुन्दरीं, सुशिक्षितां च कन्यां परिणेष्यामि" इति। "शोभनम्। तत: किं करिष्यति भवन्?" इति पुन: स्वामिना पृष्टम्। आकाशे दत्तदृष्टि: स्वप्नायमान: इव, तं सम्भाविनं कालम् अधुनैव अनुभवन्निव सः अवदत्, "तत: मम सुन्दरा: सुकोमला: पुत्रा: भविष्यन्ति। तै: सह क्रीडने यदा अहं रतः भविष्यामि तदा समयस्य भानम् अपि न भविष्यति मम" इति। "तत: किं भविष्यति" इति स्वामिना पुन: पृष्टम्। "सुशिक्षिता: मे पुत्रा: यदा विवाहयोग्या: भविष्यन्ति तदा तेषां विवाहं कारयित्वा अहं मम सर्वेभ्य: दायित्वेभ्य: विमुक्त: भविष्यामि" इति। "तत: किम्" इति पुन: स्वामिना पृष्टम्। "तत: मम निवृत्तिकाले अहं मम पौत्रै: सह क्रीडिष्यामि। तेभ्य: कथा: कथयिष्यामि। तै: सह नितरां रंस्ये" इति। पुनरपि स्वामिना पृष्टं,"तत: किम्" इति। अधुना स्वप्नलोकात् प्रतिनिवृत्त: इव, किञ्चित् गहनं चिन्तयन् इव आसीत् स युवक: इति तस्य नेत्राभ्यां ज्ञायते स्म। विचाराणां कश्चन ओघ: तस्य मन: सहसा व्याप्नोत्। "तत: किं , तत: किम्" इति इममेव प्रश्नं पुन: पुन: आकर्णयत: तस्य श्वासावरोध: एव अधुना जायमान: अस्ति इति तेन अनुभूतम्। ततस्तेन उक्तं, "भो: सन्यासिन्, किं पुन: पुन: तमेव प्रश्नं करोति भवान्? किं भविष्यति तत:? तत: खलु अहं मरणं प्राप्स्यामि। किमन्यत्?" इति। विवेकानन्दस्य प्रशान्ते गम्भीरे नेत्रे, इत्थं कथयत: तस्य युवकस्य शतश: विचाराणाम् ओघेन त्रस्तयो:, अजस्त्रं चलतो: नेत्रयो: सततं पश्यत: आस्ताम्। सहसा एव युवकस्य नेत्रे अपि स्थिरे। सोऽपि यावत् विवेकानन्दस्य नेत्रे एव पश्यंस्तिष्ठति स्म तावत् सहजतयैव विवेकानन्देन उक्तम्,"अये मरणं प्राप्तुम् एतावत् सर्वं करणीयं भवति इति अहं न जानामि स्म" इति। स्वस्य जीवनकार्यस्य विषये कश्चन महत्त्वपूर्ण: प्रश्न: अधुना युवकस्य मनसि उदित: आसीत्।
....चिन्तयन्तु।

Subscribe to:
Posts (Atom)