Tuesday, 15 June 2010

तत: किं? तत: किम्?...

स्वामी विवेकानन्द: स्वस्य देशभक्तिपरकै: भाषणै: चरितेन च नैकान् भारतीयान् प्रैरयत् इति सुविदितम् एव सर्वेषाम्।

अथ कदाचित् स्वामी विवेकानन्द: विदेशयात्रार्थं महानौकया प्रवासं करोति स्म। तस्यामेव नौकायां कश्चन अन्य: भारतीय: युवक: अपि आसीत्। भारतीया: यून: चिन्तनशीला: भवेयु: इति सर्वदा विवेकानन्देन अभिलषितम् आसीत्। स: तस्य युवकस्य समेपं गत:। परस्परपरिचयवेलायां तेन ज्ञातं यत् स: प्रगतं शिक्षणं प्राप्तुं विदेशं प्रति प्रस्थित: अस्ति। तेन स: युवक: पृष्ट:, "कस्मात् प्रगतं शिक्षणं प्राप्तुम् इच्छति भवान्?" इति। युवकेन उत्तरितम्, "प्रगतं शिक्षणं प्राप्य अहं विपुलं धनं सम्पादयितुं शक्ष्यामि" इति। "साधु! तत: किं करिष्यति भवान्?" इति पुन: स्वामिना पृष्टम्। स्वप्नलोकम् इव, स्वेन इष्टं भविष्यलोकम् इव प्रविष्टवान् स युवक: उवाच, "तत: कामपि सुन्दरीं, सुशिक्षितां च कन्यां परिणेष्यामि" इति। "शोभनम्। तत: किं करिष्यति भवन्?" इति पुन: स्वामिना पृष्टम्। आकाशे दत्तदृष्टि: स्वप्नायमान: इव, तं सम्भाविनं कालम् अधुनैव अनुभवन्निव सः अवदत्, "तत: मम सुन्दरा: सुकोमला: पुत्रा: भविष्यन्ति। तै: सह क्रीडने यदा अहं रतः भविष्यामि तदा समयस्य भानम् अपि न भविष्यति मम" इति। "तत: किं भविष्यति" इति स्वामिना पुन: पृष्टम्। "सुशिक्षिता: मे पुत्रा: यदा विवाहयोग्या: भविष्यन्ति तदा तेषां विवाहं कारयित्वा अहं मम सर्वेभ्य: दायित्वेभ्य: विमुक्त: भविष्यामि" इति। "तत: किम्" इति पुन: स्वामिना पृष्टम्। "तत: मम निवृत्तिकाले अहं मम पौत्रै: सह क्रीडिष्यामि। तेभ्य: कथा: कथयिष्यामि। तै: सह नितरां रंस्ये" इति। पुनरपि स्वामिना पृष्टं,"तत: किम्" इति। अधुना स्वप्नलोकात् प्रतिनिवृत्त: इव, किञ्चित् गहनं चिन्तयन् इव आसीत् स युवक: इति तस्य नेत्राभ्यां ज्ञायते स्म। विचाराणां कश्चन ओघ: तस्य मन: सहसा व्याप्नोत्। "तत: किं , तत: किम्" इति इममेव प्रश्नं पुन: पुन: आकर्णयत: तस्य श्वासावरोध: एव अधुना जायमान: अस्ति इति तेन अनुभूतम्। ततस्तेन उक्तं, "भो: सन्यासिन्, किं पुन: पुन: तमेव प्रश्नं करोति भवान्? किं भविष्यति तत:? तत: खलु अहं मरणं प्राप्स्यामि। किमन्यत्?" इति। विवेकानन्दस्य प्रशान्ते गम्भीरे नेत्रे, इत्थं कथयत: तस्य युवकस्य शतश: विचाराणाम् ओघेन त्रस्तयो:, अजस्त्रं चलतो: नेत्रयो: सततं पश्यत: आस्ताम्। सहसा एव युवकस्य नेत्रे अपि स्थिरे। सोऽपि यावत् विवेकानन्दस्य नेत्रे एव पश्यंस्तिष्ठति स्म तावत् सहजतयैव विवेकानन्देन उक्तम्,"अये मरणं प्राप्तुम् एतावत् सर्वं करणीयं भवति इति अहं न जानामि स्म" इति। स्वस्य जीवनकार्यस्य विषये कश्चन महत्त्वपूर्ण: प्रश्न: अधुना युवकस्य मनसि उदित: आसीत्।
....चिन्तयन्तु।

2 comments:

  1. ખરેખર પોતાની જાતને પૂછવા જેવો પ્રશ્ન. ’પછી શું?’ આખાય જીવનમાં જે સુખ મેળવવા મંડ્યા રહીયે છીએ તેનું પરિણામ જો મૃત્યુ જ હોય તો તો પછી તે માટે કરેલો પરિશ્રમ નિરર્થક છે. મૃત્યુ તો નિશ્ચિત છે જ પણ તેના સુધીનો જે જીવનપ્રવાસ છે, તેમા હું થોડી પણ સારપ ફેલાવી શકું તો જન્મ સાર્થક ગણાશે.

    ’પછી શું?’ તો થવાનુ હશે ત્યારે થશે પણ ’અત્યારે શું?’ એટલોય વિચાર કરું તો ઘણું છે. સ્વ સહિત અન્યના મુખ પર પણ સ્મિત લાવી શકું તો અંતરનો આનન્દ બેવડાશે. અને ત્યારે મને કોઈ એમ નહી પૂછે, ’મૃત્યુને પ્રાપ્ત કરવા જ શું હું આ બધુ કરતી હતી?’

    ReplyDelete