Wednesday, 2 June 2010

मुग्ध: बाल:

कदाचित् कश्चन बाल: अतिप्रात: उदतिष्ठत्। ततश्च गृहात् बहि: अटनार्थं गत:। यदा समीपस्थां नदीं प्राप्नोत् तदा तेन तत्र कटिपर्यन्तं नद्यां निमग्न: सन् सूर्याय अर्घ्यं ददत् कश्चन यति: अवलोकित:। यतिवर्य: प्राणायामादि-विविधा: क्रिया: कुर्वन्नासीत्। न तेन मुग्धेन बालेन किमपि ज्ञातम्। यावत् यतिवरस्य सर्वा: क्रिया: परिसमाप्ता: तावत् स बाल: तूष्णीं नदीतटे एव स्थित:। यतिवर: यदा बहिरागच्छत् तदा बालेन स पृष्ट:, "यतिवर कस्मादयं नासिकाग्रहणपूर्वक: श्वासावरोध: कृत: तत्रभवता" इति। प्राणायामादि-क्रियाणां विधिं महिमानं च अवगन्तुम् अक्षमाय तस्मै मुग्धाय बालाय किं वा वक्तव्यम् इति अजानता सहजमेव तेनोक्तम्, "वत्स अनेन नासिकाग्रहेण ईश्वरस्य दर्शनं भवति" इति। "अस्तु" इत्युक्त्वा बालस्तु तत: निर्गत:। ततस्तस्य मनसि आयातम्, "अहमपि नासिकाग्रहणं कृत्वा ईश्वरदर्शनं प्राप्नुयाम्" इति। तत: सोऽपि द्वितीयेऽहनि प्रातरेव यते: आगमनात् प्रागेव कटिपर्यन्तं नदीजले निमज्ज्य श्वासमवरुद्धवान्। महति क्लेशे अनोभूयमानेऽपि तेन श्वास: नोत्सृष्ट:। तदा वैंकुण्ठस्थ: विष्णु: चिन्ताक्रान्त: जात:। स मनसि अकरोत्, "बालस्य मुग्धत्वात् प्राणायामादिक्रियाणाम् अवगमने असामर्थ्यात् च यतिवर्येण बालाय यदुक्तं तत् स्थाने एव। बालस्यापि यतिवरे कृतविश्वासत्वात् श्वासावरोधद्वारा मदीयदर्शनकाङ्क्षा युज्यते एव। परन्तु अधुना बालस्य पुरतो मया अचिरात् नोपस्थीयते ततो बालेन च प्राणा: त्यज्यन्ते चेत् तत्र अहमेव दोशास्पदं स्याम्" इति।
तत अचिरात् विष्णु: बालस्य पुरत: उपस्थाय, "प्रसन्नोऽहं तव क्रियया। अधुना नासिका मुच्यतां निश्वस्यतां च" इत्युवाच। प्रहृष्ट: बाल: नासिकां मुमोच प्रेमादरसभरहृदय: विष्णुं प्राणमच्च। तदा विष्णुरुवाच, "वरं किञ्चित् वृणीष्व सौम्य" इति। बालोवाच "नास्ति किमपि वाञ्छनीयं भवगन्। भवत आगमनेनैव मे सन्तोष:। यतिवरेण यदुक्तं तत् प्रत्यक्षीकर्तुमेव मया अयं नासिकाग्रह: आचरित:। अधुना प्रतिनिवर्तितुमर्हति भवान्" इति। मन्दं हसन् विष्णु: प्रत्युवाच,"न ममागमनं कदापि व्यर्थं भवितुमर्हति। अत: यदीप्सितं तत्ते प्रदायैव गन्तुमर्हामि। तत् याच्यतां किमपि" इति। "न मे कापि वाञ्छा" इति भूयोभूय: बालेन निवारित: विष्णु: यदा सानुरोधं वरं दातुमैच्छत् तदा बालेनोक्तम्, "भवतु। इदं तावत् दीयताम्। श्वासावरोधम् अनुतिष्ठता मया अस्मिन् पर्याये भगवत: विलम्बेना आगमनात् सुमहत् कष्टम् अनुभूतम्। अग्रिमपर्याये स्पृष्टायामेव नासिकायां तत्रभवता अचिरादेव समुपस्थाय अनुग्रहीतव्योऽहम्" इति। तथास्तु इत्युक्त्वा बालाय आशी: दत्त्वा च अन्तर्हित: भगवान् विष्णु:...
....चिन्तयन्तु!

No comments:

Post a Comment