आसीत् कश्चन कृषक:। अस्मिन् पर्याये यत् सस्यं तस्य क्षेत्रे जातं तस्य गुणवत्तया स: असन्तुष्ट:। तेन चिन्तितं - "प्राय: ग्रामे यानि बीजानि लभ्यन्ते तानि एव न उत्तमगुणानि। तस्मात् सस्यस्य गुणवत्ता अपि न समीचीना" इति। तस्मात् अधुना समीपस्थात् नगरात् उत्कृष्टानि बीजानि आनेतव्यानि इति तेन निश्चितम्। स कृषक: बीजक्रयणार्थं नगरं गन्तुम् इच्छति इति वार्ता कथञ्चित् ग्रामे सर्वत्र प्रसृता। द्वितीयेऽहनि बीजक्रयणार्थं नगरं गन्तुं यावत् तेन स्वस्य वृषभशकटिका सज्जीकृता तावत् तस्य पिता तम् उवाच, "वत्स, तस्मिन्नगरे उत्तमं मधुरं लभ्यते। आबहो: कालात् तत् खादितुम् इच्छा मे मनसि वर्तते। तत् प्रतिनिवर्तनसमये सनिश्चयं त्वया मत्कृते तन्मधुरम् आनेयम्" इति। कृषक "ओम्" इत्युक्त्वा यावत् किञ्चित् अग्रे प्रस्थित: तावत् तस्या मात्रा स उक्त:, "अयि नगरं गमिष्यन् मातृवत्सलस्त्वं मदर्थे काञ्चित् उत्तमां शाटिकाम् अवश्यम् आनेष्यसि ननु" इति। "कस्मान्न" इति उक्त्वा यावत् स अग्रे प्रस्थित: तावत् तस्य अनुजेन स उक्त:, "अग्रज मदर्थे त्वया यूतकम् आनेयम्" इति। तदपि कृषकेण अङ्गीकृतम्। गमनसमये मार्गे तस्य मातृभगिनी मिलिता। तयोक्तम्, "नगरे मम काचित् सम्बन्धिनी निवसति तस्मै मया दीयमानम् इदं किञ्चित् साहित्यम् अविस्मृत्य देयम्’ इति। दास्यामि इत्युक्त्वा अग्रे प्रस्थित: कृषक:। तावदेव ग्रामस्थ: कश्चन ज्येष्ठ: तमुवाच, "भो: इयं मम यष्टि: अधुना अहमिव जीर्णा मद्भारं सोढुमसमर्था इव लक्ष्यते, तत् त्वया नगरं गच्छता मदर्थे सुदृढा नवीना यष्टि: आनेया" इति। ओमित्युक्त्वा प्रस्थित: कृषक:। दिनद्वयानन्तरं यदा स प्रत्यागतस्तदा सोत्साहं सर्वानपि सोऽवदत्। पश्यत भवद्भिरुक्तानि सर्वाणि कार्याणि मया कृतानि। इयं स्थविराय यष्टि:। मातृभगिन्या: साहित्यम् अपि मया नगरवासिन्यै तस्या: सम्बन्धिन्यै अविस्मृत्यैव प्रदत्तम्। अत्रास्ति अनुजाय युतकम्। इयम् अम्बायै शाटिका। इहास्ति ताताय मधुरम्। एवं यदा स सर्वेभ्य: तत्तदभीप्सितानि वस्तूनि ददत् आसीत् तावतैव तेन किमपि लक्षितं यत् तस्य शकटिका रिक्ता जाता। अहो! किमेतत्! अन्यानि सर्वाणि कार्याणि अविस्मृत्य कृतवता मया बीजानि एव विस्मृतानि!!
..... चिन्तयन्तु!
Monday, 7 June 2010
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment