पुरा कोऽपि संस्कृतपण्डित: कस्यचिद्राज्ञ: सभां गत:। राज्ञ: पुरत: स्वपाण्डित्यप्रदर्शनेन विपुलं धनं कीर्ति: च सम्पादयिष्यते तेन इति तेन चिन्तितम्। राज्ञा पण्डितवर: प्रणत: पृष्ट: च, "पण्डितवर, कस्मिन् विषये तत्रभवत: पाण्डित्यम्?" इति। पण्डतेनोक्तम् , " अहं तु सर्वशास्त्रविशारद: परन्तु श्रीमद्भगवद्गीतासु मम विशेषानुराग:" इति। राज्ञोक्तं - " तथा चेत् गीतास्थ: श्लोकोऽयं व्याख्यायताम् - अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥" इति। श्लोकोऽयम् अतीव प्रसिद्ध: विद्यते। भगवता श्रीकृष्णेन अत्र उक्तम् यत् - ये केचन जना: अनन्यशरणा: सन्त: माम् उपासते, मम आराधनं कुर्वन्ति, नित्यम् अभियुक्तानां तेषां योगक्षेमं, तन्नाम सर्वासाम् आवश्यक्तानां पूर्तिं जीवननिर्वहणं च अहं वहामि’ इति। स विद्वान् अनुक्षणं तं श्लोकम् अधिकृत्य होरां यावत् भाषणम् अकरोत्। बहुभि: उदाहरणै: श्रुतिस्मृतिवचनै: च श्लोकस्य अस्य अर्थं सुष्ठु विवृतवान् स:। परन्तु भाषणान्ते राज्ञो मुखे तथा सन्तोष: न दृष्ट: तेन। राज्ञोक्तं, "विद्वद्वर तत्रभवतो भाषणम् अतीव विद्वत्तापूर्णम् इत्यत्र नास्ति शङ्कालेश:, परन्तु इतोऽपि किञ्चित् अस्पष्टता अस्ति तत्र इति मम हृदयं वदति" इति। पण्डितवर: न मनागपि खिन्न:। तेनोक्तम्, "भवतु राजन्, अहं पुनरपि गभीरतरम् अध्ययनं कृत्वा इमम् एव श्लोकम् अधिकृत्य श्व: पुनरपि व्याख्यास्यामि" इति। द्वितीयेऽहनि पुनरपि होरां यावत् विनूतनानि उदाहरणानि प्रस्तूय तेन अयमेव श्लोक: विवृत:। तथापि राज्ञो मुखे सन्तोष: नासीत्। "इतोऽपि तत्रभवत: भाषणे काचित् न्यूनता प्रतिभाति मे इति" राज्ञा उक्तम्। न पण्डितेन अपि धैर्यं त्यक्तम्। तृतीयेऽहनि पुनरपि तमेव श्लोकम् अधिकृत्य स व्याख्यातवान्। परन्तु इतोऽपि राज्ञ: सन्तोष: नासीत्। एवम् एव दशदिनानि यावत् सततं प्रतिदिनं होरां यावत् नवनवै: उदाहरणै: श्रुतिस्मृतिवाक्यै: च स विद्वान् प्रत्यपासयत् परन्तु राज्ञ: इतोऽपि सन्तोष: नास्ति। अधुना पण्डित: किञ्चिदिव हताशताम् अन्वभवत्। स मनसि अकरोत्, "श्लोकस्यास्य विषये उपलब्धा: सर्वा: टीका: मया अधीता:, तत्सम्बद्धं सर्वं साहित्यं चावलोकितम्। सर्वमपि तत्र प्रास्तवम्। इत: परं किं मया राज्ञ: सन्तोषार्थं कर्तव्यम्?" इति। द्वितीयदिने प्रात: पुनरपि राज्ञ: सभा गन्तव्या आसीत्। पुनरपि किमपि विनूतनं तस्यैव श्लोकस्य विषये वक्तव्यम् आसीत्। किं वा वदानि अद्य? इति सम्भ्रान्त: स: सहसा सर्वा: टीका: अत्यजत्। श्रीकृष्णस्य प्रतिमामवलोकयन् मूलम् एव श्लोकं भूय: भूय: पठन्नासीत् स:। "अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥ योगक्षेमं वहाम्यहम्॥" इति। सहसैव तस्य मनसि प्रकाश: जात:। स मनसि अकरोत् " अये! अत्र तु भगवता उक्तं यत् योगक्षेमम् अहं वहामि इति, तत् कस्मात् अहं मम योगक्षेमस्य चिन्तां कुर्वन् तस्य राजस्य सन्तोषार्थं प्रयतमान: अस्मि?" इति। तेनेदम् अवगतं यत्, अनन्य: सन् श्रीकृष्णस्य शरणं गतस्य तस्य कृते राज्ञ: अनुग्रहस्य कापि आवश्यकता एव न विद्यते। तस्मिन् दिने स राजसभामेव न गत:। सभायां तं प्रतीक्षमाण: राजा एव स्वयं तस्य आगमनस्य वेलाया: अतिक्रमणाद् अनन्तरं तेन मेलनार्थं तस्य गृहमायात:। तेनोक्तं, "भो: पण्डितवर, कस्मादद्य तत्रभवान् सभामेव नागत:?" इति। पण्डितेन उक्तं, "भगवता श्रीकृष्णेन एव मम योगक्षेमस्य निर्वहणस्य दायित्वं स्वीकृतम् अस्ति इति वस्तुत: अहम् अद्य अवगतवान्। अधुना मम भवत: कापि अपेक्षा एव नास्ति। तस्मात् अद्य अहं राजसभां नैव आगच्छम् यदि भवान् मत्त: ज्ञानं प्राप्तुम् इच्छति तर्हि सुखम् आगच्छतु मम गृहम्। अतीव प्रेम्ण भवते ज्ञानं प्रदास्यामि" इति। मन्दं हसन् राजा तदा अवदत्,"पण्डितवर, अद्य भवता अस्य श्लोकस्य वास्तविक: अर्थ: विज्ञात:" इति।
चिन्तयतु....
Monday, 12 July 2010
Tuesday, 15 June 2010
तत: किं? तत: किम्?...
स्वामी विवेकानन्द: स्वस्य देशभक्तिपरकै: भाषणै: चरितेन च नैकान् भारतीयान् प्रैरयत् इति सुविदितम् एव सर्वेषाम्।
अथ कदाचित् स्वामी विवेकानन्द: विदेशयात्रार्थं महानौकया प्रवासं करोति स्म। तस्यामेव नौकायां कश्चन अन्य: भारतीय: युवक: अपि आसीत्। भारतीया: यून: चिन्तनशीला: भवेयु: इति सर्वदा विवेकानन्देन अभिलषितम् आसीत्। स: तस्य युवकस्य समेपं गत:। परस्परपरिचयवेलायां तेन ज्ञातं यत् स: प्रगतं शिक्षणं प्राप्तुं विदेशं प्रति प्रस्थित: अस्ति। तेन स: युवक: पृष्ट:, "कस्मात् प्रगतं शिक्षणं प्राप्तुम् इच्छति भवान्?" इति। युवकेन उत्तरितम्, "प्रगतं शिक्षणं प्राप्य अहं विपुलं धनं सम्पादयितुं शक्ष्यामि" इति। "साधु! तत: किं करिष्यति भवान्?" इति पुन: स्वामिना पृष्टम्। स्वप्नलोकम् इव, स्वेन इष्टं भविष्यलोकम् इव प्रविष्टवान् स युवक: उवाच, "तत: कामपि सुन्दरीं, सुशिक्षितां च कन्यां परिणेष्यामि" इति। "शोभनम्। तत: किं करिष्यति भवन्?" इति पुन: स्वामिना पृष्टम्। आकाशे दत्तदृष्टि: स्वप्नायमान: इव, तं सम्भाविनं कालम् अधुनैव अनुभवन्निव सः अवदत्, "तत: मम सुन्दरा: सुकोमला: पुत्रा: भविष्यन्ति। तै: सह क्रीडने यदा अहं रतः भविष्यामि तदा समयस्य भानम् अपि न भविष्यति मम" इति। "तत: किं भविष्यति" इति स्वामिना पुन: पृष्टम्। "सुशिक्षिता: मे पुत्रा: यदा विवाहयोग्या: भविष्यन्ति तदा तेषां विवाहं कारयित्वा अहं मम सर्वेभ्य: दायित्वेभ्य: विमुक्त: भविष्यामि" इति। "तत: किम्" इति पुन: स्वामिना पृष्टम्। "तत: मम निवृत्तिकाले अहं मम पौत्रै: सह क्रीडिष्यामि। तेभ्य: कथा: कथयिष्यामि। तै: सह नितरां रंस्ये" इति। पुनरपि स्वामिना पृष्टं,"तत: किम्" इति। अधुना स्वप्नलोकात् प्रतिनिवृत्त: इव, किञ्चित् गहनं चिन्तयन् इव आसीत् स युवक: इति तस्य नेत्राभ्यां ज्ञायते स्म। विचाराणां कश्चन ओघ: तस्य मन: सहसा व्याप्नोत्। "तत: किं , तत: किम्" इति इममेव प्रश्नं पुन: पुन: आकर्णयत: तस्य श्वासावरोध: एव अधुना जायमान: अस्ति इति तेन अनुभूतम्। ततस्तेन उक्तं, "भो: सन्यासिन्, किं पुन: पुन: तमेव प्रश्नं करोति भवान्? किं भविष्यति तत:? तत: खलु अहं मरणं प्राप्स्यामि। किमन्यत्?" इति। विवेकानन्दस्य प्रशान्ते गम्भीरे नेत्रे, इत्थं कथयत: तस्य युवकस्य शतश: विचाराणाम् ओघेन त्रस्तयो:, अजस्त्रं चलतो: नेत्रयो: सततं पश्यत: आस्ताम्। सहसा एव युवकस्य नेत्रे अपि स्थिरे। सोऽपि यावत् विवेकानन्दस्य नेत्रे एव पश्यंस्तिष्ठति स्म तावत् सहजतयैव विवेकानन्देन उक्तम्,"अये मरणं प्राप्तुम् एतावत् सर्वं करणीयं भवति इति अहं न जानामि स्म" इति। स्वस्य जीवनकार्यस्य विषये कश्चन महत्त्वपूर्ण: प्रश्न: अधुना युवकस्य मनसि उदित: आसीत्।
....चिन्तयन्तु।

Wednesday, 9 June 2010
केम्ब्रिज्-विश्वविद्यालयस्य कश्चन प्राध्यापक:.....
द्वितीय-विश्वयुद्ध-समये यदा इंग्लेण्ड-देश: पराजयस्य वारणाय स्वीयं सम्पूर्णं सामर्थ्यं योजितवान् आसीत्, देशस्य प्रत्येकं निवसी स्वसामर्थ्येन इंग्लेण्ड-विजयाय यतते स्म, तदा घटित: कश्चन प्रसङ्ग: इत्थं श्रूयते-
केम्ब्रिज्-विश्वविद्यालयस्य कश्चन प्राध्यापक: स्वीये शान्ते प्रकोष्ठे अध्ययने निमग्न: आसत। तावत् कश्चन रुष्ट: इंग्लेण्ड-सैनिक: तस्य अध्ययन-प्रकोष्ठं प्रविशति। सम्पूर्ण: इंग्लेण्ड-देश: यां युद्धस्थितिम् अनुभवन्नासीत् तस्या: विषये अयं प्राध्यापक: सर्वथा उदासीन: इति तस्य प्राध्यापके आक्षेप: आसीत्। प्राध्यापक: स्मेरमुख: तं युवसैनिकं,"कस्य कृते इदं युद्धम्?" इति पृच्छति। "देशरक्षणार्थम्" इति स सैनिक: झटिति उत्तरयति। यदर्थं स सैनिक: स्वप्राणान् पणीकृत्य युध्यते किन्नाम स देश:? इति प्राध्यापक: जिज्ञासति। "अस्य भूखण्डस्य सीमा: तदीय-जना: च समाहृता: देश: इति आख्यां भजन्ते" इत्युक्तं सैनिकेन। "भूखण्डस्तु मृत्तिकामात्रम्, तत् किं मृत्तिका देश:? तदीयजना: तु शतात् वर्षेभ्य: पूर्वं इतरे आसन्, तदापि देशस्तु अयमेव आसीत्। कस्तर्हि देश इत्याख्यां भजते?" इति पुन: पृष्टं प्राध्यापकेन। तस्य कथनस्य तात्पर्यं समक् ज्ञात्वा सैनिकेन अङ्गीकारपूर्वकम् उक्तम् यत् तेन नेदं रक्षितुम् इष्टम् अपितु देशस्य संस्कृति: रक्षितुम् इष्टा। तदा प्राध्यापकेन शान्ततयैव उक्तं यत् सोऽपि तस्मिन्नेव संस्कृते: संरक्षणसंवर्धनयो: कार्ये निरत: आसीत्। सैनिकस्य रोषावेश: प्रशान्त:। स: प्राध्यापकं नत्वा इतोऽपि उत्साहेन देशस्य सांस्कृते: रक्षणाय कटिबद्ध: सन् तत: प्रस्थित:।
.... चिन्तयन्तु।
(श्री.भा.वर्णेकरमहाभागस्य लेखात् उद्धृतम्।)

Monday, 7 June 2010
कृषकस्य कथा
आसीत् कश्चन कृषक:। अस्मिन् पर्याये यत् सस्यं तस्य क्षेत्रे जातं तस्य गुणवत्तया स: असन्तुष्ट:। तेन चिन्तितं - "प्राय: ग्रामे यानि बीजानि लभ्यन्ते तानि एव न उत्तमगुणानि। तस्मात् सस्यस्य गुणवत्ता अपि न समीचीना" इति। तस्मात् अधुना समीपस्थात् नगरात् उत्कृष्टानि बीजानि आनेतव्यानि इति तेन निश्चितम्। स कृषक: बीजक्रयणार्थं नगरं गन्तुम् इच्छति इति वार्ता कथञ्चित् ग्रामे सर्वत्र प्रसृता। द्वितीयेऽहनि बीजक्रयणार्थं नगरं गन्तुं यावत् तेन स्वस्य वृषभशकटिका सज्जीकृता तावत् तस्य पिता तम् उवाच, "वत्स, तस्मिन्नगरे उत्तमं मधुरं लभ्यते। आबहो: कालात् तत् खादितुम् इच्छा मे मनसि वर्तते। तत् प्रतिनिवर्तनसमये सनिश्चयं त्वया मत्कृते तन्मधुरम् आनेयम्" इति। कृषक "ओम्" इत्युक्त्वा यावत् किञ्चित् अग्रे प्रस्थित: तावत् तस्या मात्रा स उक्त:, "अयि नगरं गमिष्यन् मातृवत्सलस्त्वं मदर्थे काञ्चित् उत्तमां शाटिकाम् अवश्यम् आनेष्यसि ननु" इति। "कस्मान्न" इति उक्त्वा यावत् स अग्रे प्रस्थित: तावत् तस्य अनुजेन स उक्त:, "अग्रज मदर्थे त्वया यूतकम् आनेयम्" इति। तदपि कृषकेण अङ्गीकृतम्। गमनसमये मार्गे तस्य मातृभगिनी मिलिता। तयोक्तम्, "नगरे मम काचित् सम्बन्धिनी निवसति तस्मै मया दीयमानम् इदं किञ्चित् साहित्यम् अविस्मृत्य देयम्’ इति। दास्यामि इत्युक्त्वा अग्रे प्रस्थित: कृषक:। तावदेव ग्रामस्थ: कश्चन ज्येष्ठ: तमुवाच, "भो: इयं मम यष्टि: अधुना अहमिव जीर्णा मद्भारं सोढुमसमर्था इव लक्ष्यते, तत् त्वया नगरं गच्छता मदर्थे सुदृढा नवीना यष्टि: आनेया" इति। ओमित्युक्त्वा प्रस्थित: कृषक:। दिनद्वयानन्तरं यदा स प्रत्यागतस्तदा सोत्साहं सर्वानपि सोऽवदत्। पश्यत भवद्भिरुक्तानि सर्वाणि कार्याणि मया कृतानि। इयं स्थविराय यष्टि:। मातृभगिन्या: साहित्यम् अपि मया नगरवासिन्यै तस्या: सम्बन्धिन्यै अविस्मृत्यैव प्रदत्तम्। अत्रास्ति अनुजाय युतकम्। इयम् अम्बायै शाटिका। इहास्ति ताताय मधुरम्। एवं यदा स सर्वेभ्य: तत्तदभीप्सितानि वस्तूनि ददत् आसीत् तावतैव तेन किमपि लक्षितं यत् तस्य शकटिका रिक्ता जाता। अहो! किमेतत्! अन्यानि सर्वाणि कार्याणि अविस्मृत्य कृतवता मया बीजानि एव विस्मृतानि!!
..... चिन्तयन्तु!
..... चिन्तयन्तु!
Friday, 4 June 2010
मार्जालबन्धनस्य परंपरा...
कश्चन सन्यासी। अतीव विद्वान्। स्वज्ञानेन अन्यानपि लाभान्वितान् कर्तुम् इच्छन् स ग्रामस्थे कस्मिन्नपि मन्दिरे प्रतिदिनं सायं षड्वादनत: सप्तवादनपर्यन्तं प्रबोधनम् आरभत। तस्य ज्ञनेन निरूपणशैल्या च ग्रामजना: प्रभाविता:। शतश: ग्रामस्था: प्रतिदिनं तस्य प्रबोधनं श्रोतुं समागच्छन्ति स्म। तत्र मन्दिरे अटन् कश्चन मार्जाल: प्रबोधनसमये व्यत्ययं जनयति स्म। अत: कदाचित् भाषमाण: स सन्यासी कमपि श्रोतारं प्रार्थयत, "श्रीमन् कृपया एनं मार्जालं रज्ज्वा केनपि स्तम्भेन सह बध्नातु। प्रबोधनानन्तरं पुन: स मोक्तव्य:" इति। स श्रोता तथैव आचरत्। तदारभ्य प्रतिदिनं स श्रोता अस्य कार्यस्य दायित्वमिव वहन् षड्वादने प्रबोधानात् पूर्वं मार्जालं कोणस्थेन केनापि स्तम्भेन बध्नाति स्म प्रबोधनात् परं सप्तवादने च तं मुञ्चति स्म। वर्षानुवषम् अयं क्रम: अन्ववर्तत। कदाचित् स श्रोता ग्रामान्तरं गच्छन् अन्यस्मै एतत् कार्यं समर्पितवान्। तत: सोऽपि बहूनि वर्षाणि कार्यमेतत् ऊढवान्। कदाचित् स सन्यासी दिवंगत:। स्वार्थभावनां विना ग्रामस्थानां कल्याणाय बहूनिवर्षाणि प्रबोधितवत: तस्य मरणम् अतीव शोकास्पदमासीत् सर्वेषां कृते। तस्मिन् दिने अपि स श्रोता सायं षड्वादने मार्जालबन्धनस्य सप्तवादने च मार्जालमोचनस्य क्रमम् अन्वसरत् एव। एतद् एकं कार्यं परलोकं गतेन सन्यासिना नितराम् इष्टम् अत: एतस्य अनुवर्तनेन स नितरां तुष्ट: स्यात् इति धिया तदनन्तरमपि बहूनि वर्षाणि यथावत् एतत् कार्यम् अन्ववर्तत। तदनन्तरं कदाचित् स वृद्ध: मार्जालोऽपि यदा दिवंगत: तदा श्रद्धावद्भि: ग्रामजनै: सायं बन्धनाय विनूतन: मार्जाल: आनीत:। क्रमेण स श्रद्धालु: श्रोता अपि दिवंगत: ततश्च तस्य ज्येष्ठ: पुत्र:श्रद्धया एतत् कार्यम् अन्ववर्तयत। पितु: पुण्यस्मृतौ तस्य धनिक: पुत्र: मार्जालबन्धनाय सुवर्णं स्तम्भं सुवर्णशृङ्खलां च आनयत्। चतुश्शतं वर्षाणि अतीतानि। तस्मिन् मन्दिरे मार्जालबन्धनस्य सा प्रथा अद्यापि श्रद्धया अनुवर्त्यते तत्रत्यै: ग्रामस्थै:!
.... चिन्तयन्तु!
.... चिन्तयन्तु!
Wednesday, 2 June 2010
मुग्ध: बाल:
कदाचित् कश्चन बाल: अतिप्रात: उदतिष्ठत्। ततश्च गृहात् बहि: अटनार्थं गत:। यदा समीपस्थां नदीं प्राप्नोत् तदा तेन तत्र कटिपर्यन्तं नद्यां निमग्न: सन् सूर्याय अर्घ्यं ददत् कश्चन यति: अवलोकित:। यतिवर्य: प्राणायामादि-विविधा: क्रिया: कुर्वन्नासीत्। न तेन मुग्धेन बालेन किमपि ज्ञातम्। यावत् यतिवरस्य सर्वा: क्रिया: परिसमाप्ता: तावत् स बाल: तूष्णीं नदीतटे एव स्थित:। यतिवर: यदा बहिरागच्छत् तदा बालेन स पृष्ट:, "यतिवर कस्मादयं नासिकाग्रहणपूर्वक: श्वासावरोध: कृत: तत्रभवता" इति। प्राणायामादि-क्रियाणां विधिं महिमानं च अवगन्तुम् अक्षमाय तस्मै मुग्धाय बालाय किं वा वक्तव्यम् इति अजानता सहजमेव तेनोक्तम्, "वत्स अनेन नासिकाग्रहेण ईश्वरस्य दर्शनं भवति" इति। "अस्तु" इत्युक्त्वा बालस्तु तत: निर्गत:। ततस्तस्य मनसि आयातम्, "अहमपि नासिकाग्रहणं कृत्वा ईश्वरदर्शनं प्राप्नुयाम्" इति। तत: सोऽपि द्वितीयेऽहनि प्रातरेव यते: आगमनात् प्रागेव कटिपर्यन्तं नदीजले निमज्ज्य श्वासमवरुद्धवान्। महति क्लेशे अनोभूयमानेऽपि तेन श्वास: नोत्सृष्ट:। तदा वैंकुण्ठस्थ: विष्णु: चिन्ताक्रान्त: जात:। स मनसि अकरोत्, "बालस्य मुग्धत्वात् प्राणायामादिक्रियाणाम् अवगमने असामर्थ्यात् च यतिवर्येण बालाय यदुक्तं तत् स्थाने एव। बालस्यापि यतिवरे कृतविश्वासत्वात् श्वासावरोधद्वारा मदीयदर्शनकाङ्क्षा युज्यते एव। परन्तु अधुना बालस्य पुरतो मया अचिरात् नोपस्थीयते ततो बालेन च प्राणा: त्यज्यन्ते चेत् तत्र अहमेव दोशास्पदं स्याम्" इति।
तत अचिरात् विष्णु: बालस्य पुरत: उपस्थाय, "प्रसन्नोऽहं तव क्रियया। अधुना नासिका मुच्यतां निश्वस्यतां च" इत्युवाच। प्रहृष्ट: बाल: नासिकां मुमोच प्रेमादरसभरहृदय: विष्णुं प्राणमच्च। तदा विष्णुरुवाच, "वरं किञ्चित् वृणीष्व सौम्य" इति। बालोवाच "नास्ति किमपि वाञ्छनीयं भवगन्। भवत आगमनेनैव मे सन्तोष:। यतिवरेण यदुक्तं तत् प्रत्यक्षीकर्तुमेव मया अयं नासिकाग्रह: आचरित:। अधुना प्रतिनिवर्तितुमर्हति भवान्" इति। मन्दं हसन् विष्णु: प्रत्युवाच,"न ममागमनं कदापि व्यर्थं भवितुमर्हति। अत: यदीप्सितं तत्ते प्रदायैव गन्तुमर्हामि। तत् याच्यतां किमपि" इति। "न मे कापि वाञ्छा" इति भूयोभूय: बालेन निवारित: विष्णु: यदा सानुरोधं वरं दातुमैच्छत् तदा बालेनोक्तम्, "भवतु। इदं तावत् दीयताम्। श्वासावरोधम् अनुतिष्ठता मया अस्मिन् पर्याये भगवत: विलम्बेना आगमनात् सुमहत् कष्टम् अनुभूतम्। अग्रिमपर्याये स्पृष्टायामेव नासिकायां तत्रभवता अचिरादेव समुपस्थाय अनुग्रहीतव्योऽहम्" इति। तथास्तु इत्युक्त्वा बालाय आशी: दत्त्वा च अन्तर्हित: भगवान् विष्णु:...
....चिन्तयन्तु!

Monday, 31 May 2010
एवं कदाचित् सञ्जातम्....
द्वयो: ग्रामयो: निवसतां जनानां कमपि विषयम् अधिकृत्य कलह: सञ्जात:। तदा एकस्य ग्रामस्य सर्वेऽपि युवका: देण्ड-हल-लवित्रादीनि आयुधानि स्वीकृत्य अन्यं ग्रामम् आक्रान्तुं सिद्धा: समजायन्त। तै: ग्रामं प्रति यात्रा आरब्धा। परन्तु यावत् ते अपरग्रामस्य सीमां प्राप्नुवन् तावत् सूर्य: अस्तं गत:। ग्रामं संरक्षत:दुर्गस्य द्वाराणि पिहितानि। अधुना अन्त: गन्तुम् अशक्यम्। तस्मात् एभि: युवभि: निर्णितम्, " अद्य दुर्गद्वारि एव निद्रास्याम:। प्रात: प्रात: उद्घाटिते एव दुर्गद्वारि आक्रमणं कुरवाम" इति। ततश्च सर्वेऽपि युवान: दुर्गद्वारि एव पङ्क्तिश: प्रसुप्ता:। केनचित् कालेन पङ्क्तौ दुर्गद्वारसमीपे एव प्रसुप्त: प्रथम: व्यचिन्तयत्,"प्रातर्यदा दुर्गद्वाराणि उद्घाट्यन्ते तदा प्रथमे स्थाने स्थितत्वात् शत्रूणां प्रथम: प्रहारस्तु मयैव सोढव्य: भवेत्। युद्धे यदि विजयो लब्धस्तदा तच्छ्रेय: तु सर्वस्यापि भविष्यति। तत् किमर्थं मयैव प्रथम: प्रहार: सोढव्य:?" इति। इत्थं विचिन्त्य स तत उत्थाय पङ्क्तौ अन्तिमस्थानं गत्वा तत्र सुप्त:। तत आदौ यो द्वितीय आसीत् स अधुना पङ्क्तौ प्रथेमे स्थाने अवर्तत। मध्येरात्रं तस्य निद्रा यदा किञ्चित् विक्षिप्ता तदा आत्मानं प्रथमे स्थाने विलोक्य सोऽपि प्रथमवदेव अचिन्तयत्। तत: सोऽपि तत उत्थाय अन्तिमे स्थाने निद्रित:। ततस्तृतीयोऽपि तथैव पृष्ठत: गत्वा प्रसुप्त:। तत: चतुर्थ: तत: पञ्चम:। क्रमेण य: पूर्वं प्रथम: आसीत् स एव पुन: प्रथमं स्थानं प्राम्नोत्। पुनश्च स तत उत्थाय अन्तिमं स्थानं गत:। एवं प्रकरेण आरात्रि स्थानान्तरणं कारं कारं द्वितीये दिने प्रात: युद्धाय प्रस्थित: स युवगण: पुनरपि स्वग्रामं प्राप्नोत्!.....
.....चिन्तयन्तु!
.....चिन्तयन्तु!
Subscribe to:
Posts (Atom)