Friday, 27 May 2011

उन्नततमं तृणम्

कदाचित् कश्चन गुरुः शिश्यम् अवोचत्, "वत्स सम्प्रति वर्षाकालः किल? अस्माकम् आश्रमस्य पुरतः स्थितायां विशालायां भूमौ बहुलं तृंणं प्रवृद्धं विद्यते। गच्छ तत्र। सर्वत्र अट। यत्र सर्वतः उन्नतं तृणतन्तुं पश्यसि तत्रैव त्वया स्थातव्यम्। अत्र वर्तते कश्चन समयः। त्वया केवलम् अग्रे गन्तुं शक्यते। कदापि पृष्ठतः गन्तुं नार्हसि त्वम्" इति। गुरोराज्ञां प्राप्य शिष्यस्तु अनुक्षणं तां तृणबहुलां भूमिं प्रति प्रस्थितः। यावत् किञ्चिदेव अटितं तावदेव तेन कश्चन अत्युन्नतः तृणातन्तुः दृष्टः चिन्तितं च अत्रैव तिष्ठामि इति। पुनरपि चिन्तितम्, "बहुविशालायाम् अस्यां भूमौ नूनम् अग्रे इतोऽपि उन्नतः तृणतन्तुः स्यादेव" इति। इत्थं विचिन्त्य स अग्रे प्रस्थितः। ततो बहु अटनाद् अनन्तरम् अपि तेन तावान् उन्नतः तन्तुः कुत्रापि न प्राप्तः। तदा तेन चिन्तितम्, "अहो! स्खलितम् एव मया। स एव तन्तुः प्रायः उन्नततमः आसीत्। परन्तु हा! धिक्! अधुना प्रत्यावर्तनं नैव शक्यम्। अस्तु इतोऽपि अन्विश्यामि" इति। पुनरपि अग्रे कश्चित् उन्नतः तन्तुः प्राप्तः एव। पुनरपि शिष्यस्य मनसि द्वैतम् उत्पन्नम्, "स्थेयं वा प्रस्थेयम्" इति। एवं कारं कारम् अन्ततो गत्वा सम्पूर्णायाः तृणमय्याः भूमेः अटनं समाप्तम्। स शिष्यः कुत्रापि न स्थितः। अन्ते स कञ्चित् महत्त्वपूर्णं पाठं पठित्वा स गुरोः समीपं प्रतिनिवृत्तः।
चिन्तयन्तु...

मनःप्रवृत्तिः

कश्चन शिष्यः गुरुमुपगम्य अवदत्, "गोरो ध्यानस्य विधिम् अधिगन्तुम् इच्छामि। कृपया अध्यापयतु भवान्" इति। "अस्तु। श्वः प्रातरेव मनः सर्वथा रिक्तं कृत्वा आगच्छ। तदा अध्यापयिष्यामि" इति उक्तं गुरुणा। "बाढम्" इत्युक्त्वा शिष्यः ततो निर्गतः। अन्ये द्युः गुरोः आदेशानुसारं स शिष्यः प्रातरेव तस्य सकाशमागतः। गुरुणा उक्तम्, "वत्स, उपविशात्र। नेत्रे निमीलय" इति। शिष्येण तथैवाचरितम्। ततो गुरुणोक्तं, "किं त्वया स्वमनः सर्वथा विचारशून्यं कृतम्?" इति। शिष्येण "आम्" इत्युक्तम्। ततो गुरुः पुनरपि प्रोवाच,"किं त्वं सम्प्रति किमपि न चिन्तयसि?" इति। "एवम्" इत्युक्तं शिष्येण। गुरुरुवाच,"आश्रमं प्रति आगमनमार्गे कश्चित् मृतः उष्ट्र पतितः आसीत्। किं सोऽपि सम्प्रति तव मनसि नास्ति?" इति। शिष्यः कञ्चित् कालं तूष्णीम् उपाविशत्। ततस्तेन उक्तं,"गुरो, स उष्ट्रः मे मनसि नैव आसीत्। परमधुना यद् भवता स स्मारितः, ततो महता प्रयत्नेनापि स मम मनसः न निस्सरति!" इति। गुरुः मन्दं हसन्नेव अतिष्ठत्। चिन्तयन्तु..
(श्रीहरिभाई-कोठारी-महोदयस्य प्रवचनेभ्यः उद्धृतम्)

Saturday, 12 February 2011

क-कारात् परं ख-कारः एव किल?

आसीत् कश्चन बालः। वयसा अत्यन्तं लघुः। प्रत्यग्रमेव तेन शालागमनम् आरब्धम्। तत्र बालकेन्द्रे प्रत्यग्रमेव शिक्षकः वर्णमालाम् अपाठयत्। बालेनापि परिश्रमैः वर्णमालायाः क्रमः लेखनपद्धतिः च आत्मसात्कृतौ। वर्णमालां ज्ञात्वा "अधुना अहं साक्षरः" इति सः अचिन्तयत्। तस्य बालस्य पितामहः कश्चन महान् लेखकः आसीत्। तेन शतशः ग्रन्थाः प्रणीताः आसन्। सर्वासु दिक्षु तस्य विदुषः कीर्तिः प्रासरत्। कदाचित् बालोऽपि अचिन्तयत्, "अधुना यतः अहं साक्षरः सञ्जातः,ततः पश्यानि मम पितामहेन अपूर्वकीर्तिसम्पादकं किं साहित्यं विरचितम्" इति। पितामहस्य ग्रन्थागारात् तेनैव प्रणीतेषु स्थूलतमं ग्रन्थम् उन्नीय यावदवलोकयते, तवत् प्रथमे एव शब्दे प्रमादः सम्प्राप्तः इत्यहो आश्चर्यम्! झटिति तेन पितामहः आहूतः, कथितं च, "अये कथं पितामह, भवादृशेन प्रणीतस्य ग्रन्थस्य प्रथमे एव पृष्ठे, प्रथमे एव शब्दे लक्ष्यते प्रमादः! "कथं प्रमादः?" इति पितामहेन पृष्टम्। तदा पौत्रः विवरणं प्रास्तौत्- "पश्यतु भवान्, किमत्र लिखितम्- ’कमलम्’ इति। अस्मिन् शब्दे क-कारोत्तरं म-कारः दृश्यते किल? नैतद् युज्यते। क-कारोत्तरं ख-कारः एव लेखनीयः इति अस्माकं शिक्षकः अपाठयत्। तदेतत् भवता विलिखितं सर्वं सर्वथा असाधु" इति।

पितामः स्मेरमुखः स्वीयाय प्रमादाय पौत्रं क्षमाम् अयाचत।

चिन्तयन्तु...

Monday, 17 January 2011

स्वामिनः स्वपनानन्तरम्

आसीत् कश्चन सार्थवाहः। तस्य समीपे शतम् उष्ट्राः आसन्। तेषां परिपालनाय तेन कश्चन पुरुषः नियुक्तः आसीत्। कदाचित् सः पुरुषः अस्वस्थः समजायत। तस्मात् सार्थवाहेन तस्मै कतिचनमासात्मकः विरामः प्रदत्तः, तस्य स्थाने च अपरः कश्चित् पुरुषः नियुक्तः। प्रथमायां रात्रौ पुरुषः सार्थवाहस्य मण्डपम् आगत्य अपृच्छत्, "स्वामिन्, मया कदा निद्रातव्यम्?" इति। स्वामिना उक्तम्, "यदा सर्वे उष्ट्राः उपविशन्ति तदा त्वया निद्रातव्यम्" इति। तेन पुरुषेण आरात्रि प्रतीक्षितम्। यावत् केचन उष्ट्राः उपविशन्ति स्म, तावत् इतरे उत्तिष्ठन्ति स्म। सर्वे उष्ट्राः तु न कदापि उपविष्टाः। द्वितीयस्यां रात्रौ पुरुषः पुनरपि स्वामिनः समीपम् अगच्छत्, अपृच्छत् च, "स्वामिन्, अद्य कदा निद्रातव्यं मया?" इति। पुनरपि तदेव उत्तरं प्राप्तं तेन, "यदा सर्वे उष्ट्राः उपविशन्ति तदा निद्रतव्यम्" इति। द्वितीयस्यां रात्रौ अपि तेन पुरुषेण सर्वेषाम् उष्ट्राणाम् उपवेशनस्य प्रतीक्षा कृता। परन्तु तथा नाभवत्। द्वितीयस्यां रात्रौ अपि तेन निद्रा न प्राप्ता। तृतीयरात्रिपर्यन्तं सः अतीव श्रान्तः आसीत्। पुनरपि स्वामिनं गत्वा पृच्छति, "स्वामिन्! मया कदा स्वपनीयम्?" इति। स्वामिना ईषदिव क्रोधेन उक्तम्, "किमर्थं त्वं भूयो भूयः तदेव पृच्छसि? उक्तं किल मया सर्वेषाम् उष्ट्राणाम् उपवेशनानन्तरं त्वं स्वपितुमर्हसि इति?" इति। पुरुषेण मनसि चिन्तितम्, "अद्य रात्रौ अपि यदि निद्रा न प्राप्यते तर्हि अहं जीवितुमेव न शक्ष्यामि" इति। पुनरपि तेन सर्वेषाम् उश्ट्राणाम् उपवेशनस्य प्रतीक्षा आरब्धा। अद्य सुरात्री स्यात् कदाचित्। मध्यरात्रौ तेन दृष्टं यत् क्रमशः सर्वे उष्ट्राः उपविशन्तः सन्ति। दश उष्ट्राः उपविष्टाः। ततः विंशतिः। ततस्त्रिंशत्। ततश्चत्वारिंशत्। एवं क्रमेण अशीतिः, ततो नवतिः, एकनवतिः , द्विनवतिः, त्रिनवतिः..... नवनवतिः... अधुना एकः एव उष्ट्रः जागर्ति स्म। सः पुरुषः मनसि ईश्वरं प्रार्थयमानः आसीत्। अर्धहोरा अतीता। सः एकः एव उष्ट्रः तिष्ठति। सर्वेऽपि अन्ये उपविष्टाः। अन्ततः पुरुषस्य धैर्यं विनष्टम्। सः तस्य उष्ट्रस्य गलस्थाः रज्जुम् आकृष्य यावत् तं बलात् उपवेशयितुं प्रायतत तावत् तस्य ग्रीवास्था घण्टा अनदत्। तं नादं श्रुत्वा सर्वेऽपि उष्ट्राः उत्थिताः। वराकः सः तस्यां रात्रावपि नालभत निद्राम्।

एवम् आदिनं कार्यं कुर्वता, रात्रौ च निद्राम् अप्राप्नुवता तेन जीवितुं नैव शक्यते इति तेन ज्ञातम्। तावति एव तस्य मनसि विचारः आगतः, "पूर्वतनः उष्ट्रपालः किं करोति स्म इति पृच्छानि" इति। सपदि सः तस्य गृहः गतः। तेन तस्मै स्वीया समस्या निवेदिता। पूर्वतनः उष्ट्रपालः तत् श्रुत्वा ईषदिव विहस्य तं पुरुषम् अवदत्,"भद्रमुख, सर्वे उष्ट्राः न कदापि युगपदेव उपवेक्ष्यन्ति" इति। ततः पुरुषेण पृष्टम्,"एवं स्थिते मया निद्रा कदा विधेया?" इति। तदा पूर्वतनः उष्ट्रपालः अवदत्, "त्वया उष्ट्राणाम् उपवेशनस्य प्रतीक्षा न कर्तव्या, त्वया तस्य स्वामिनः स्वपनस्य प्रतीक्षा कर्तव्या। स्वमिनः स्वपनानन्तरं त्वयापि स्वपनीयम्" इति। तदनन्तरं सः पुरुषः तथैव आचरत्। सुखेन च उष्ट्रपरिपालने प्रावर्तत च।

चिन्तयन्तु....

(हरिभाई-कोठरी-महोदयस्य प्रवचनेभ्यः उद्धृता इयं कथा)

पलाण्डवः अपि खादिताः कशाघाताः चापि सोढाः

एवमुच्यते यत् राज्ञः अकबरस्य श्यालः आसीत् कश्चन। तेन कश्चन अपराधः कृतः। सैनिकैः सः राज्ञः पुरतः आनीतः। अकबरः तस्य अपराधं ज्ञात्वा अन्यसदृशमेव दण्डं दातुम् ऐच्छत्। परन्तु तथा करणेन राज्ञी रुष्टा स्यात् इति भीतिरासीत् तस्य मनसि। किं करणीयम् इति सः वीरबलम् अपृच्छत्। वीरबलेन उक्तम्, "राजन्! चिन्तां मा कुरु। श्वः यदा तव श्यालः पुनरपि न्यायार्थं राजसभाम् आनेष्यते, तदा केवलं तस्य अपराधं सम्यक् जानातु भवान्। येन अपराधिनः सम्यक् शिक्षा स्यात्, राज्ञी च रुष्टा न स्यात् तथा दण्डेन अहं योजयामि तम्" इति।

अपरस्मिन् दिने सभायां राज्ञी अपि उपस्थिता आसीत्। राज्ञा तथैव अनुष्ठितम्। स्वस्य श्यालस्य अपराधनिश्चित्यनन्तरं "वीरबलः तस्मै योग्यं दण्डम् उद्घोषयिष्यति" इति उक्त्वा राजा विरतः। वीरबलेन सर्वं श्रुत्वा उक्तम्, "भद्र, तव अपराधः न सामान्यः। त्वं कठोरं दण्डम् अर्हसि परन्तु त्वं महाराजस्य श्यालः अतः तुभ्यं नातिकठोरः दण्डः प्रदास्यते। त्वया शतं पलाण्डवः वा खादनीयाः शतकशाघाताः वा सोढव्याः। अनयोः एकं दण्डं त्वमेव तुभ्यं वृणीष्व" इति। अपराधिना चिन्तितं पलाण्डुखादनं न तावते क्लेशाय। तस्मात् तेन तदेव वृतम्। परन्तु यावत् तेन दश पलाण्डवः खादिताः तावत् तेन ज्ञातं यत् इतः परम् इतोऽपि पलाण्डुखादनम् अशक्यम् एव। तस्य नेत्रयोः अश्रूणि वहन्ति स्म। कशाघातसहनमेव एतस्य अपेक्षया वरतरम् इति सः ज्ञातवान्। तेन सपदि पलाण्डुखादनं स्थगितम्। ततः तस्य इच्छानुगुणमेव तस्मिन् कशाघाताः विहिताः। परन्तु दशाधिकान् कशाघातान् प्राप्यैव सः भूमौ पतितः। ईदृशाः कठोराः आघाताः तेन इतोऽपि सोढुं नैव शक्याः आसन्। पलाण्डु खादने एव पुनः यत्नः विधेयः इति विचिन्त्य तेन पुनरपि दश पलाण्डवः भुक्ताः। पुनरपि तद् असहमानः सः कशाघातप्राप्तये सज्जः। एवम् अन्ततो गत्वा तेन शतं पलाण्डवः अपि खादिताः, शतं कशाघाताः चापि सोढाः।

चिन्तयन्तु....
(मम स्वर्गीयेन मित्रेण हरीश-तन्ना-महाभागेन मह्यम् इयं कथा उक्ता)

Wednesday, 29 December 2010

चायार्थः विरोधः

अस्ति कश्चन ग्रामः। तत्रत्याः ज्येष्ठाः प्रतिमासं सकृत् एकत्र समिल्य ग्रामसम्बन्धिविषयाणां चर्चां कुर्वन्ति| स्वस्य उद्योगादिकं समाप्य रात्रिभोजनं कृत्वा रात्रौ नववादने सर्वे एकत्रिताः भवन्ति। अस्याः गोष्ठ्याः आरम्भसमयस्तु निश्चितः परन्तु न समाप्तिसमयः। ग्रामसम्बद्धाः समस्याः यथा अनन्ताः तथैव इयं गोष्ठी अपि। सर्वेऽपि इमे ग्रामहिताय चिन्तयन्ति। किन्तु सर्वेषां चिन्तनस्य दिक् भिन्ना। यम् उपक्रमम् एकः ग्रामस्य उपकाराय मन्यते अपरः तमेव ग्रामस्य महते अपकाराय मन्यते। इतरः भिन्नमेव उपक्र्मं चिन्तयति। तेनैव गिष्ठ्यां सर्वदा महान् कलहः भवति। तत्र गोष्ठीकक्षात् बहिरेव कश्चन चायविक्रेता आरात्रि तिष्ठति। यः कलहात् त्रस्तः भवति सः बहिरागत्य तस्मात् चायं स्वीकरोति। किञ्चित् स्फूर्तिं प्राप्य पुनः गोष्ठीकक्षं प्रविश्य अन्यैः सह चर्चाम् अनुवर्तयते। एवं प्रतिगोष्ठि तस्य चायस्य महान् विक्रयः भवति।

एकस्यां रात्रौ प्रतिवारमिव नववादने गोष्ठी आरब्धा। चायविक्रेतापि प्रतिवारमिव गोष्ठीकक्षात् बहिः स्थितः। परन्तु अहो आश्चर्यम्! अस्मिन् अवसरे एकैकशः सर्वेऽपि चर्चाविषयाः झटिति एव सर्वमान्यतां प्राप्नुवन्ति। न कोऽपि कस्यापि विरोधं करोति। गोष्ठिकक्षे कलहस्य वातावरणमेव नास्ति। सर्वेषां मुखानि स्मयमानानि सन्ति। सर्वमेतद् दृष्ट्वा बहिः चायविक्रेता स्थितः चिन्तातुरः समजायत। यदि गोष्ठी अचिरात् समाप्ता स्यात् तर्हि को वा मम चायं पास्यति? इति विचिन्त्य सः स्वयमेव उष्णीषं परिधाय ज्येष्ठानां तेषां सदसि सम्मिलितः। यावत् चर्चा प्रचलति स्म, तावत् मध्ये एव हस्तम् उत्तोल्य स प्रोच्चैः अवदत्, "न हि , मम विरोधः अस्ति!" इति। सहसैव गोष्ठीकक्षे सर्वत्र शान्तिः प्रसृता। सर्वे निश्शब्दाः सन्तः तमेव पश्यन्तः आसन्। तावति एव केनापि विचक्षणेन सदस्येन सः चायविक्रेता अभिज्ञातः। तस्य विरोधस्य वास्तविकं कारणं विज्ञाय किञ्चिदिव विहस्य सः तमवदत्, "भद्र मा विरोधं कुरु, इतः गमनसमये सर्वेऽपि सदस्याः त्वत्तः चायं निश्चयेन क्रेष्यन्ति" इति।

चिन्तयन्तु....

Tuesday, 23 November 2010

तत्र क: संशयः?

कदाचित् कश्चन पुरुषः कञ्चित् विशिष्टं शुकम् आदाय कस्यचन महाराजस्य सभायाम् उपस्थितः। रूपतः सुन्दरः स शुकः महाराजाय नितराम् अरोचत। शुकं क्रेतुकामः महाराजः तं पुरुषम् अपृच्छत्, "भद्र! किम् अस्य शुकस्य मूल्यम्?" इति। पुरुषोऽवदत्, "सहस्रं सुवर्णनाणकानि" इति। चकितः महाराजः पुनरपि अब्रवीत्, "कस्मात् एतावत् मूल्यम् अस्य सामान्यस्य शिकस्य?" इति। तदा पुरुषेण उक्तम्, "महाराज, नायं सामान्यः शुकः। अयं तु पृष्टानां प्रश्नानाम् उत्तराणि वक्तुं समर्थः" इति। महराज उवाच, "नाहं विश्वसिमि" इति। पुरुष आह, "तर्हि स्वयं शुकः एव पृच्छ्यताम्" इति। महाराजः शुकम् अपृच्छत्, "किं त्वं प्रश्नानाम् उत्तराणि वक्तुं समर्थः?" इति। झटिति शुकेनोक्तम्, "तत्र कः संशयः?" इति। महाराजः प्रभावितः। स पुनरपृच्छत्, "किं तव मूल्यं सहस्र-सुवर्ण-नाणक-मितं विद्यते?" इति। शुकः प्राह, "तत्र कः संशयः?" इति। महाराजः शुकस्य प्रतिभां दृष्ट्वा विस्मितः। अनुक्षणं तेन राजकोषात् सहस्रं सुवर्णनानि प्रदाय स शुकः क्रीतः। स तं शुकं प्रासादस्य द्वारे एव अस्थापयत्। ये अतिथयः महाराजस्य दर्शनार्थम् आगच्छन्ति स्म तान् सः पृष्टानां प्रश्ननाम् उत्तरदाने समर्थम् एतं शुकम् अपि सोत्साहं दर्शयति स्म। सर्वेऽपि तं शुकं दृष्ट्वा विस्मिताः सन्तः तमेव शुकं पृच्छन्ति स्म, "भोः किं तव मूल्यं सहस्र-सुवर्ण-नाणकमितम्?" इति। सोऽपि अनुपदम् उत्तरयति स्म,"तत्र कः संशयः?" इति। तद् श्रुत्वा चकितचकिताः अतिथयः तस्य क्रेतारं गुणज्ञं राजानं बहुशः प्रशंसन्ति स्म। तस्य महाराजस्य कश्चित् चतुरः मन्त्री इमां वार्तां ज्ञातवान्। कस्यचित् शुकस्य क्रयणे महाराजानुमत्या राजकोषात् इयतः धनस्य व्ययः नारोचत तस्मै। सोऽपि राजदर्शनव्याजेन शुकदर्शनाय राजप्रासादं गतः। राजा तन्मुखादपि शुकक्रयणविषये प्रशंसाम् उत्प्रेक्षमाणः तस्मै शुकम् अदर्शयत्। परं नायं मन्त्री अन्यसदृशः राजप्रशंसया राजानुकूल्यमात्रस्य सम्पादने तत्परः। अयं तु वस्तुतः महाराज्यस्य हितं कामयते स्म। सोऽपि अपृच्छत् शुकम्, "अये किं त्वं पृष्टानां सर्वेषां प्रश्नानाम् उत्तराणि प्रदातुं समर्थः?" इति। शुक उवाच, "तत्र कः संशयः?" इति। ततश्च पुनरपि मन्त्री पप्रच्छ, "किं सहस्र-सुवर्ण-नाणक-मितं तव मूल्यम् उचितम्?" इति। पुनरपि शुक उवाच,"तत्र कः संशयः?" इति। मन्त्रिणा एतावता एव सर्वम् अभिज्ञातम्। झटिति मन्त्रिणा पुनरपि स शुकः पृष्टः, "किं सहस्रं सुवर्णनाणकैः येन त्वं क्रीतः स राजा मूर्खः नास्ति?" इति। शुकेन पुनश्च तदेव उत्तरम् उक्तम्, "तत्र कः संशयः?" इति। मूर्खः स महाराजः अतीव कुपितः तं शुकं व्यापादितवान्।
चिन्तयन्तु...