Friday 4 June 2010

मार्जालबन्धनस्य परंपरा...

कश्चन सन्यासी। अतीव विद्वान्। स्वज्ञानेन अन्यानपि लाभान्वितान् कर्तुम् इच्छन् स ग्रामस्थे कस्मिन्नपि मन्दिरे प्रतिदिनं सायं षड्वादनत: सप्तवादनपर्यन्तं प्रबोधनम् आरभत। तस्य ज्ञनेन निरूपणशैल्या च ग्रामजना: प्रभाविता:। शतश: ग्रामस्था: प्रतिदिनं तस्य प्रबोधनं श्रोतुं समागच्छन्ति स्म। तत्र मन्दिरे अटन् कश्चन मार्जाल: प्रबोधनसमये व्यत्ययं जनयति स्म। अत: कदाचित् भाषमाण: स सन्यासी कमपि श्रोतारं प्रार्थयत, "श्रीमन् कृपया एनं मार्जालं रज्ज्वा केनपि स्तम्भेन सह बध्नातु। प्रबोधनानन्तरं पुन: स मोक्तव्य:" इति। स श्रोता तथैव आचरत्। तदारभ्य प्रतिदिनं स श्रोता अस्य कार्यस्य दायित्वमिव वहन् षड्वादने प्रबोधानात् पूर्वं मार्जालं कोणस्थेन केनापि स्तम्भेन बध्नाति स्म प्रबोधनात् परं सप्तवादने च तं मुञ्चति स्म। वर्षानुवषम् अयं क्रम: अन्ववर्तत। कदाचित् स श्रोता ग्रामान्तरं गच्छन् अन्यस्मै एतत् कार्यं समर्पितवान्। तत: सोऽपि बहूनि वर्षाणि कार्यमेतत् ऊढवान्। कदाचित् स सन्यासी दिवंगत:। स्वार्थभावनां विना ग्रामस्थानां कल्याणाय बहूनिवर्षाणि प्रबोधितवत: तस्य मरणम् अतीव शोकास्पदमासीत् सर्वेषां कृते। तस्मिन् दिने अपि स श्रोता सायं षड्वादने मार्जालबन्धनस्य सप्तवादने च मार्जालमोचनस्य क्रमम् अन्वसरत् एव। एतद् एकं कार्यं परलोकं गतेन सन्यासिना नितराम् इष्टम् अत: एतस्य अनुवर्तनेन स नितरां तुष्ट: स्यात् इति धिया तदनन्तरमपि बहूनि वर्षाणि यथावत् एतत् कार्यम् अन्ववर्तत। तदनन्तरं कदाचित् स वृद्ध: मार्जालोऽपि यदा दिवंगत: तदा श्रद्धावद्भि: ग्रामजनै: सायं बन्धनाय विनूतन: मार्जाल: आनीत:। क्रमेण स श्रद्धालु: श्रोता अपि दिवंगत: ततश्च तस्य ज्येष्ठ: पुत्र:श्रद्धया एतत् कार्यम् अन्ववर्तयत। पितु: पुण्यस्मृतौ तस्य धनिक: पुत्र: मार्जालबन्धनाय सुवर्णं स्तम्भं सुवर्णशृङ्खलां च आनयत्। चतुश्शतं वर्षाणि अतीतानि। तस्मिन् मन्दिरे मार्जालबन्धनस्य सा प्रथा अद्यापि श्रद्धया अनुवर्त्यते तत्रत्यै: ग्रामस्थै:!
.... चिन्तयन्तु!

No comments:

Post a Comment