Wednesday 9 June 2010

केम्ब्रिज्-विश्वविद्यालयस्य कश्चन प्राध्यापक:.....

द्वितीय-विश्वयुद्ध-समये यदा इंग्लेण्ड-देश: पराजयस्य वारणाय स्वीयं सम्पूर्णं सामर्थ्यं योजितवान् आसीत्, देशस्य प्रत्येकं निवसी स्वसामर्थ्येन इंग्लेण्ड-विजयाय यतते स्म, तदा घटित: कश्चन प्रसङ्ग: इत्थं श्रूयते-

केम्ब्रिज्-विश्वविद्यालयस्य कश्चन प्राध्यापक: स्वीये शान्ते प्रकोष्ठे अध्ययने निमग्न: आसत। तावत् कश्चन रुष्ट: इंग्लेण्ड-सैनिक: तस्य अध्ययन-प्रकोष्ठं प्रविशति। सम्पूर्ण: इंग्लेण्ड-देश: यां युद्धस्थितिम् अनुभवन्नासीत् तस्या: विषये अयं प्राध्यापक: सर्वथा उदासीन: इति तस्य प्राध्यापके आक्षेप: आसीत्। प्राध्यापक: स्मेरमुख: तं युवसैनिकं,"कस्य कृते इदं युद्धम्?" इति पृच्छति। "देशरक्षणार्थम्" इति स सैनिक: झटिति उत्तरयति। यदर्थं स सैनिक: स्वप्राणान् पणीकृत्य युध्यते किन्नाम स देश:? इति प्राध्यापक: जिज्ञासति। "अस्य भूखण्डस्य सीमा: तदीय-जना: च समाहृता: देश: इति आख्यां भजन्ते" इत्युक्तं सैनिकेन। "भूखण्डस्तु मृत्तिकामात्रम्, तत् किं मृत्तिका देश:? तदीयजना: तु शतात् वर्षेभ्य: पूर्वं इतरे आसन्, तदापि देशस्तु अयमेव आसीत्। कस्तर्हि देश इत्याख्यां भजते?" इति पुन: पृष्टं प्राध्यापकेन। तस्य कथनस्य तात्पर्यं समक् ज्ञात्वा सैनिकेन अङ्गीकारपूर्वकम् उक्तम् यत् तेन नेदं रक्षितुम् इष्टम् अपितु देशस्य संस्कृति: रक्षितुम् इष्टा। तदा प्राध्यापकेन शान्ततयैव उक्तं यत् सोऽपि तस्मिन्नेव संस्कृते: संरक्षणसंवर्धनयो: कार्ये निरत: आसीत्। सैनिकस्य रोषावेश: प्रशान्त:। स: प्राध्यापकं नत्वा इतोऽपि उत्साहेन देशस्य सांस्कृते: रक्षणाय कटिबद्ध: सन् तत: प्रस्थित:।
.... चिन्तयन्तु।
(श्री.भा.वर्णेकरमहाभागस्य लेखात् उद्धृतम्।)

3 comments:

  1. प्रेरकमिदम्‌ आलेखम्‌ ।
    कतिपयेषु स्थानेषु टंकणसंबंधिनीत्रुटयः सन्ति, तेषां निराकरणमपेक्षितम्‌ सम्यग्पाठनाय।

    ReplyDelete
  2. मन्ये शब्दपुष्टिकरणम्‌ (Word verification) अनावश्यकम्‌ ब्लॉग-जगति। कृपया इदं निष्क्रियं करोतु.....

    ReplyDelete
  3. भवतः टिप्पणीनिमित्तं धन्यवादाः। परन्तु ’शब्दपुष्टीकरणम्’ इत्यस्य आशयः न अवगतः। कृपया स्पष्टीकरोतु।
    पुनश्च धन्यवादः।

    ReplyDelete